SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनीटीकासहिता च; निवसति = सरघायां विलीना भवति इति भावः । इह 'अयम्' इति प्रत्याहारः ( कृतः )। अनेन कळागणः व्यञ्जनगणः च सकल: अपि श्रुतः ( श्रावितः = कथितः इति भावः )। यथा, 'यमुखाः' इति यादिदशकं, यकारेण, स्मारितं, 'त्रयं चैतत्स्वान्ते' इत्यादिचतुविशे श्लोके । तादृशः यकारः प्रत्याहाराङ्गतया अत्र स्वीकृतः। अतः तेन अकारदिना अयम् इति रूपसिद्धिः । एतेन सर्वा अपि मातृका कलाव्यञ्जनगणरूपा 'अयम्' इति प्रत्याहारेण स्वीकृता। ककारेणाकारः 'अक्' इति प्रत्याहारः तु स्वरगणम् अशेषं कथयति हि ॥२६॥ अथ क्षकारातिशयस्य मणिपूरे समयिपूजाविशेषस्य च निरूपणम् क्षकारः पञ्चाशत्कल इति 'हलो बैन्दवगृहं ककारादूवं स्याज्जननि तव नामाक्षरमिति । भवेत्पूजाकाले मणिखचितभूषाभिरभितः प्रभाभिालीढं भवति मणिपूरं सरसिजम् ॥२७॥ पाठा०-(१) हरो। (२) क्षकारा०। क्षकारः, पञ्चाशत्कल: = पञ्चाशद्वर्णरूपः । हरस्वरूपस्य हकारस्य बैन्दवगृहं च । हे जननि ! तादृशक्षकाराद् ऊर्ध्वम् ( उपरि ) तव नाम विद्यते 'अक्षरः' इति । अत्र 'ककाराद्' इत्यत्र 'क्षकाराद्' इति पाठान्तरम् । इदम् एव साधु इव भाति । ( अथ ) तव पूजाकाले मणिपूरचक्रं, मणिखचित-भूषासंजनित-प्रभाभिः व्यालीढं भवति समयिनाम् इति भावः ॥२७॥ अथ चक्रेषु मणिपूरं द्वितीयमिति केषांचित्पक्ष, तृतीयमिति समयिपक्षं च निरूप्य, अनाहते वायूत्पत्तिनिरूपणम् For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy