SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org युगन्धर त्वं परमां प्रदेहि काम्यां मम ब्रह्मरमां प्रदेहि । दुरन्तदुष्कर्म भवाधिकार - स्करावलीभो विभवाधिकार ॥ २ ॥ अव०-हे युगन्धर ! त्वं परमां प्रकृष्टां ब्रह्मरमां मोक्षलक्ष्मी मम प्रदेहि वितर । ब्रहारमां कथंभूतां १ प्रकर्षेण देहिभिर्जन्तुभिः काम्यां स्पृहणीयां । त्वं कथंभूतः ? दुरन्तानि च तानि कर्माणि च तेभ्यो भवा उत्पन्ना याऽऽधिर्मानसी पीडा सैव कारस्करावली वृक्षावली तस्यामिभो गजः समूलमुन्मूलनकारित्वात् । विगता भवस्य संसारस्याधिकारा व्यापारा यस्मात्स तस्य संबोधनम् ॥ २ ॥ श्रीबाहुने तस्तनुतां भवस्य, दुष्कर्मबन्धात्तनुतां भवस्य । भवान्नतस्यासुमतोऽसमान गुणावले सत्सुमतोऽसमान ॥ ३ ॥ अव० - श्रीबाहुनेतः भवान् । नतस्य असुमतः प्राणिनः । दुष्कर्मबन्धात् भवस्य जातस्य । भवस्य संसारस्य । तनुतां तुच्छतां । तनुतां कुरुतामिति संबन्धः । त्वं कथंभूतः १ सतां सुष्ठु अतिशयेन मतोऽभीष्टः । सह मानेनाहङ्कारेण वर्तते यः स समानः, न समानोऽसमानस्तस्य संबोधनम् ( असमानाऽसाधारणा गुणावली यस्य तस्य संबुद्धौ इति ) ॥ ३ ॥ सुबाहुतीर्थेश नवारिदाव-नीरर्द्धिवलीवनवारिदाव । भवदपाने पततो मम त्वं नुदन्नतालीकृततो ममत्वम् ॥ ४ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy