________________
Acha Shnagan Gyaan
अव०-हे हारिहारहरहासक्षीरक्षीराम्बुसद्यशः! हारी मनोहरो यो हारः हरहासश्चेश्वरहसनं, क्षीरं च, क्षीराम्बुश्च | क्षीरसमुद्रः, हारिहारहरहासक्षीरक्षीराम्बवस्तद्वदुज्ज्वलं निर्मलं सत् प्रधानं यशो यस्य स तथा तस्य संबोधनं । हे शिववृक्षशिरःसारक्षीरवाह ! हे मङ्गलतरुशिरःसिञ्चनप्रधानतरजलद । हे व्यवायहृत् ! हे विघ्नहर ॥ ६॥
शिवश्रीवर शौर्यर्य, विश्वविश्वालसंहर । रोषव्यूहारिसंहारिन्, शिशिरांश्वास्यसारस ॥ ७ ॥ ___ अव०-हे सिद्धिलक्ष्मीपते । हे शौर्ययं ! शौर्य विद्यते येषां ते शोथिणस्तेषामर्यः स्वामी यः स शौर्यर्यः तस्य संबोधनं हे शौर्य्यर्य हे पराक्रमवत्पते! अतुलपौरुष इत्यर्थः । हे विश्वविश्वालसंहर ! विश्वे त्रिजगति विश्वानि सम|स्तानि यानि आलानि अनास्तानि संहरति अपनयति यः स तथा तस्य संबोधनं विश्वविश्वालसंहर । हे रोषव्यूहारि|संहारिन् ! रोषः क्रोधस्तद्रूपो व्यूहो महान् योऽरिः शत्रुस्तस्य संहारो मरणं विद्यते यस्मात्स रोषव्यूहारिसंहारी तस्य संबो
धनं । हे शिशिरांश्वास्यसारस! शिशिराः शीतला अंशवः किरणा यस्य स शिशिराशुश्चन्द्रस्तद्वदास्यसारसं मुखकमलं | यस्य स तथा तस्य संबुद्धौ हे शिशिरांश्वास्यसारस ॥७॥
एवं महावीरजिनेश पञ्च-वर्गाक्षरालीरहितेन सम्यक् ।
शं सूरचन्द्रेण मया स्तवेन, देहि स्तुतो भूतलभूषण त्वम् ॥ ८॥ अव०-एवमित्यादि कण्ट्यम् ॥८॥
ARCHESARIRCRACHAARRECEM
For
P
l
And
Use Only