________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ॥ १ ॥
www.kobatirth.org
तनुभाजां भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवं तिर्यमनुष्याणां पुंस्त्रीनपुंसक रूपाणा पृथग् मेदानामुजवलं निर्मलं, मोक्षमार्ग मुक्तिपथं पृथगिव भिन्नमिव विदिशन्तं प्रकाशयन्तं । कैः कृत्वा १ क्रम० क्रमाणां चरणानां नखाः क्रमनखाः, दश च ते क्रमनखाश्च तेषां कोटी अग्र, दीप्राणि च तानि दीप्तीनां प्रतानानि क्रम० तैः कृत्वेत्यथः । क्रमाणामित्यत्र बहुवचनं पूज्यत्वसूचकं । यथा कल्याणमन्दिरस्तोत्रे - 'यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां' इतिवचनात् तीर्थकृतां पादाः सर्वेषां पूजनीया इति भावः । इति प्रथमश्लोकार्थः ॥ १ ॥
कीपुस्तनुभृता मैथ शिल्पिशिक्य- देहानुदाहरति काध्वनिरत्र कीदृक् ? |
काश्चारुचन् समवसृत्यवनौ भवाम्बु- मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः १ ॥ २ ॥
अव० – “जिनर्दन्तरुचैयः” । तनुभृतां शरीरिणां वपुः शरीरं कीदृक् स्यात् ? जिनत्, हानिं गच्छत् । ज्या हानौ धातुः । शतृ प्र० नाविकरणे गृहिज्यावयीत्यादिना ( ४-१-७१ ज्यान्येव्यधिव्यचिव्यथेरिः ) संप्रसारणं । तद्दीर्धेत्यादिना ( ४-१-१०३ दीर्घमवोऽन्त्यम् ) दीर्घत्वं । प्वादीत्यादिना ( ४-२-१०५ प्वादेईस्वः ) ह्रस्वत्वं । क्यादीत्यादिना ( ४-३-९४ इडेत्पुसि चातो लुक् ) आकारलोपः । रुश्च चश्च यश्च रुचयाः तेऽन्ते यस्य काध्वनेः । ततो यथा| क्रमं कारु काच काय इति भवति । अईद्दशनदीप्तयः ॥ २ ॥
१ कारुः शिल्पी, काचः शिक्यं, कायो देहः ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नशतम्
॥ १ ॥