________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) गन्त्री सदा गगनमाप्तमहासुऋद्धिः श्रीसङ्घविघ्नभरकोकनदे हिमानी ॥ ताासना सुखकरी सदभिप्रणम्या चक्रेश्वरी जयतु नित्यमपारशक्तिः ॥४॥
॥श्रीशान्तिनाथस्तुतिः ॥
॥स्रग्धरा ॥ नृत्यदेवाङ्गनौधैरचलितमनसं कर्मदुष्टारिवीर व्याप्तज्ञानार्कभासंसकलजगति तं विश्वभव्यानवन्तम् ॥ योग्यक्षेन्दं जिनेन्द्रं कुशलजलनिधिं विश्वसेनाङ्गजातं शान्तिवातं धरन्तं सुरनृपतिपतिं स्तोम्यहंशान्तिनाथम्॥१॥ नित्यं नाभेयमीडेऽजितसुमतिजिनौ संभवानन्तमल्लीन् श्रेयोदं नन्दनं तं ससुविधिविमलं पद्मचन्द्रौ सुपार्श्वम्॥ श्रेयांसं शीतलेशं प्रशमरसनिधिं वासुपूज्यारकुन्थून् धर्म शान्तिच नेमिं जिनमुकुटनर्मि सुव्रतं पार्श्ववीरौ ॥२॥ श्रेयोवृन्दं ददाति प्रभवभयभरं हन्ति कामप्रदात्री हर्षवातं प्रदत्ते भवशिखिपतितप्राणधारिबजेभ्यः॥ मुक्त्यम्भाजं प्रसूते भविकशिवतरं सर्वदा सिञ्चते या सार्हद्वाण्यम्बुमाला प्रसरतुसततं गाढपारा त्रिलोक्याम्३ या विघ्नौघप्रहन्त्री प्रगुणगणवती हेमदीप्ति हरन्ती
For Private And Personal Use Only