________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८ )
अपारे संसारे विषयपरिषत्पीडितजनान् स नाथः श्रीपार्श्वो जिनवरपती रक्षतु सदा ॥ १ ॥ दयाया अम्भोधिः शुचितरमनीपानिचयदः प्रसूतो वामाङ्गाद्दलितदुरितः संयमिवरः ॥ विराजँल्लोकाग्रे सुखपदकजे हंस इव स विभुः पार्श्वशानः कृतिभततिचन्द्रो विजयताम्॥२॥ महाजन्माम्भोधिप्रवहणवर दोषभरदं त्रिलोक्यम्भोजप्रोल्लसनतरणिं भव्यवरदम् ॥ जितान्तर्दुष्टौघं विततयशसं विश्वभुवने नमामि श्रीपार्श्व समजनसुखाऽऽनन्दनमहम् ॥३॥
॥ श्रीवीरनाथचैत्यवन्दनम् ||
( खग्धरा )
गवा पापापुरीं यः प्रचुरसुखनिधिं वेगतो मुक्तिमाप दिव्याचिन्त्य स्वरूपः स्फुटगुणजलधिः कीर्त्तिकान्तिप्रकान्त तुल्यस्वान्तप्रवृत्तिर्विषमविषधरे सेवके वासवे च सश्रीवीरस्तनोतु प्रहृतमदखल : प्राणिनां भूरिभूतिम् ॥ १ ॥ सम्यग्देवेन्द्रसेव्यः स्मरवनदहनः कामहः कामदाता संसारातङ्गवैद्यः प्रभवभयहरः सिद्धिसौख्यैकभोक्ता ॥ प्राप्तप्रौढप्रतापः कृतवृजिनजयो जन्मपङ्काप्रवाहो
For Private And Personal Use Only