SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ I. 52 - त्रिगुरुर्भगणः प्रोक्तस्त्रिलघुर्नगणो मतः । यगणो लघुमानादौ तगणोऽन्त्यलधुर्मतः ॥ ५२॥ रगणो लघुमान्मध्ये जगणो मध्यसद्गुरुः । सगणोऽन्त्यगुरुः प्रोक्तो भगणो गुरुरादितः ॥ ५३ ॥ अष्टावेते गणाः प्रोक्ताः प्रत्येकं त्रित्रिवर्णकाः । वर्णवृत्ते प्रयोक्तव्याः कवितानिपुणैर्बुधैः ॥ ५४॥ चतुर्मात्रागणाः पञ्च प्रत्येक गदिता बुधैः। मात्रावृत्ते तु ते ज्ञेयास्तेषां लक्षणमुच्यते ॥ ५५ ॥ द्विगुरुर्भगणः प्रोक्तो नगणश्च चतुर्लघुः । भगणो जगणो यश्च सगणो वर्णवृत्तवत् ॥ ५६ ॥ यरतास्तु न सन्त्यत्र पञ्चमात्रात्मकत्वतः । क्वचित् सन्ति विशेषोक्तेः संभवादिति बुध्यताम् ॥ ५७ ॥ यगणो जलरूपोऽयं धनकृद्रगणोऽनलः । भयदाहकरस्तस्तु गगनं श्रीकरो मतः ॥५८।। भगणः सुखकृत्सौम्यो जो भानू रोगदायकः । वायव्यः सगणो दत्ते क्षयरूपं फलं सदा ॥५९।। शुभदो मगणो भूमिर्नगणो गौर्धनप्रदः । एवं गणफलं प्रोक्तं शुभाशुभविभेदतः ॥६०।। देवतावाचिशब्दानां भद्राद्यर्थप्रकाशिनाम् । शब्दानां निरवद्यत्वं काव्यादौ गणवर्णतः ॥६१।। गणवर्णफलं प्रोक्तं समानं कविभिः कृते । काव्ये सर्वत्र बोद्धव्यं गद्यपद्योभयात्मके ॥६२॥ १. तु वद्ज्ञेया, २. सुखकृत्साम्यो, ३. भानो। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy