________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
२
शृङ्गारार्णवचन्द्रिका
१
गुणवर्मादिकर्नाटकवीनां सूक्तिसंचयः । वाणीविलासं देयात्ते रसिकानन्ददायिनम् ॥ ७ ॥ राजनीतिमहाशास्त्रनिरूपितफलप्रदाम् । नानातटाककासारनदीवनविभूषिताम् ॥ ८ ॥
संदे ( व ) पुरसंकाशनानानगरभासुराम् । जिनराज महाधर्म श्रावकोत्तमराजिताम् ॥ ९॥ अष्टादशमहाश्रेणीभूषितां श्रीमतीतराम् । पश्चिमार्णवपर्यन्तां दशां सर्वसुखप्रदाम् ॥ १० ॥ श्रीमद्भरतराजेन्द्रनामचक्रधरोपमः ।
श्रीवीरनरसिंहाख्य बङ्गभू (मी) श्वरो महान् ॥ ११ ॥ पालयत्यमलां 'बङ्गवाटीपुरसमन्विताम् । कादम्बवंशजनितानेकभूमीशपालिताम् ।। १२ ।। तस्यानुजो गुणाधीशः पाण्ड्यबङ्गनरेश्वरः । सत्येन रामचन्द्रोऽभूद्धर्मेण भरतेश्वरः ॥ १३ ॥ रत्नत्रयमहाधर्मरक्षको राजशेखरः । महाकविजन 'स्तूयमानसत्कीर्ति (ना) यकः ॥ १४ ॥ सोऽपि श्रीपाण्ड्यबङ्गोऽयं निपादाब्जषट्पदः । अनुक्रमागतां भूमिं पूर्वोक्तां रक्षति स्म वै ।। १५ ।। तस्य श्री पाण्ड्य बङ्गस्य भागिनेयो गुणार्णवः । विट्ठलाम्बा महादेवीपुत्रो राजेन्द्रपूजितः ॥ १६ ॥ "श्रीकामिराजबङ्गोऽभून्नाम्ना नृपतिकुञ्जरः । वैरिसंदोहगन्धेभघटा (क ) ण्ठीरवोपमः ॥ १७ ॥
[ 1.7
१ देयांते, २. वङ्गवाडी: I have sanskritised as वङ्गवाटी, ३. गुणादी पाण्ड्य, ४. स्तूयमानसत्कीर्ति यक:, ५. कामिराय: I have sanskritised as कामिराज throughout the text. ६. घटा ठरवो ।
For Private and Personal Use Only