________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
११६
अत्र हर्षवचने द्विरुक्तिर्भूषणम् ।
रतिक्रियायां कोपेन कामिन्या निजनायकः । वामपादेन संताड्य संताड्याबध्य दण्डितः ॥ १५९ ॥ अत्र सकोपवचने द्विरुक्तिर्भषणमेव ।
[ X. 159 -
रक्ष मां रक्ष मां कान्ते न ताडय न ताडय । मुञ्च मुञ्च प्रकोपं त्वं त्वत्पदं शरणं मम ॥ १६०॥ अत्र दैन्यवचने पुनरुक्तता न दूषणम् । रायबङ्गेन सद्दानं क्रियते क्रियते मुदा । प्रजापि परिवारोऽपि रक्ष्यते रक्ष्यते सदा ॥ १६९ ॥ अत्रार्थनिश्चये पुनरुक्तत्वं न दूषणम् ।
प्रसन्नोऽस्तु प्रसन्नोऽस्तु रायबङ्ग भवानहो ।
अनाथकं प्रजावृन्दं रक्ष रक्ष दयापर ।। १६२ || अत्र प्रसादनेऽनुकम्पायां पौनरुक्त्यं न दूषणम् । रायबङ्गमहीनाथं साक्षादिक्षुशरासनम् ।
तस्य पुण्यं न सामान्यं दृष्ट्वा चित्रीयते जनः ॥ १६३॥
अत्र तस्य पुण्यं न सामान्यमिति वाक्यं गर्भितनामधेयं दुष्टमपि विस्मये गुण एव ।
नेदं सरो वह्निकुण्डं प्रवालशयनं न च । अङ्गारराशिरधुना भृशं दहति मां द्वयम् ।। १६४ ॥
सरसो वह्निकुण्डत्वकथनं पल्लवशय्याया अङ्गारराशित्ववचनं च प्रत्यक्षविरुद्धमपि विरहे न दूषणम् ।
चन्द्र राहुर्न बाधेत जगदानन्दकारणम् । रोहिण्या सह तस्यास्तु मङ्गलादपि मङ्गलम् ।। १६५ ।।
अत्र श्लोककथितार्थ समोऽन्योऽर्थः । प्रसिद्धकारणेन नेयोऽप्यनुशये गुणो न दूषणम् ।
For Private and Personal Use Only