________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७६
शृङ्गारार्णवचन्द्रिका
[ IX. 164
प्रियगमनकार्ये यत्नकरणव्याजेन प्रियया निजेशगमनं निषिद्धमिति
यत्नाक्षेपालंकारः ।
क्षणालिङ्गनविघ्नाय रोमहर्षाय कुप्यता ।
प्रेम्णा निषिद्धं गमनं तवेश न मया पुनः ॥ १६४॥
प्रेमाधीनतया कान्तया निजेशगमनं निषिद्धमिति परवशाक्षेपालंकारः ।
पुनरुज्जीवनोपायं संजीवनमहापदम् ।
दत्त्वा याहि निजेश त्वं कन्दर्पो मां हनिष्यति ॥ १६५ ॥
जीवनोपाय दुर्घटत्व निवेदनव्याजेन निजेशगमनं निषिद्धमित्युपायाक्षेपालंकारः ।
यामीति वचनं नाथ ते मुखान्निर्गतं वरम् ।
याहि वा वस यत्त्वत्तो मम किंचित् फलं न हि ॥ १६६ ॥ अत्यधिकस्नेहया सकोपया सुकान्तया कान्तगमनं निषिद्धमिति रोषाक्षेपालंकारः ।
स्पृष्टं मया न ताम्बूलं न दृष्टं स्वदितं न वा । शून्यं तवास्तु नष्टं वा मार्जारो वात्तु मत्प्रिय ॥ १६७॥ प्रागनागत्य पुनरागतेन जीवितेशेन सहैवमुक्त्वा कान्तया ताम्बूलस्य सानुक्रोशं दोषोद्भावनं कृतमित्यनुक्रोशाक्षेपालंकारः ।
कलौ काले प्रजा धर्मं नाचरन्ति न चासते । न्यायमार्गे अहो कष्ट मनुशोचति हि रायराट् ॥। १६८ ।। धर्मपालचूडामणिना रायधरणीशेन कलौ प्रजानां धर्माचाख्यावृत्त्यादिकं दृष्ट्वा पश्चात्तापः कृत इत्यनुशयाक्षेपालंकारः ।
१. मत्त्वतो २. सकोपयासि कान्तया ३. शून्यास्तत्रास्तु ४. मनु
शेषते ।
For Private and Personal Use Only