________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
३४
शृङ्गारार्णवचन्द्रिका
कासारं जललीलया परिगते दुष्टो रमण्या नृपः
श्रीरायो जलसेचनं परिलसद्यन्त्रेण कृत्वा सतीम् । मज्जन्तीं सरसीजले भयवशात्कृत्वा परां कामिनीं
[ IV. 83 -
चुम्बित्वाधरपान' संज्ञजलधौ तन्तन्यते मज्जनम् ॥ ८३ ॥ चुम्ब्यमाना नारी ज्येष्ठा । इतरा कनिष्ठा ।
नायिकालक्षणं तासां भेदं चोक्त्वाधुना पुन: । तासामष्टाववस्थास्ताः प्ररूप्यन्ते भृशं मया ॥ ८४ ॥ स्वाधीनपतिका नारी काचिद्वासकसज्जिका । कलहान्तरिता काचिद्विप्रलब्धा परा मता ।। ८५ ।। विरहोत्कण्ठिता काचित् काचित् प्रोषितभर्तृका । खण्डता रमणी काचित् काचिदन्त्याभिसारिका ॥ ८६ ॥ यस्याः सामीप्यमाश्रित्य यदधीनः पतिः सदा । स्वाधीनपतिका नारी सा प्रोक्ता रसकोविदैः ॥ ८७ ॥ काञ्चीनारीं नृपतितिलको रायबङ्गः सदालं
स्वारुह्याङ्कं पिबति मधुरं चाधरं प्रेक्षतेऽङ्गम् । : तत्संलापं निशमयति वै सौरभं जिघ्रतीदं
स्पृष्ट्वा स्पृष्ट्वा वरकुचयुगं मोदते कामतन्त्रः ॥ ८८ ॥ प्रियस्यागमनं श्रुत्वा मुदा भूषणभूषिता । या नारी सा स्तुता लोके सतां वासकसज्जिका ॥ ८९ ॥ श्रीरायागमनोत्सुका रतिसमा नारी मनोहारिणी
सालंकाररसोरुवृत्तिगुणसद्रीतिप्रभावान्विता । नानावर्णनया कवीन्द्रकृतया युक्ता सशय्या सदा
साथ सूक्तिविलासिनी गतमला चारु प्रबन्धायते ॥ ९० ॥ आगतं नायक कोपात्तिरस्कृत्य तदर्थनी । या दुःखपीडिता सात्र कलहान्तरिता यथा ॥ ९१ ॥ १. “सङ्खय ं । २. सशय्यास्सदा ।
For Private and Personal Use Only