________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
श्रीदुर्गार्चन पद्धतिः।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात् त्वयि स्थिते । इति जप सम. पंयेत् । ततः स्तवं पठेद्यथा। ओं दुगी शिवां शान्तिकरी ब्रह्माणी ब्रह्मण: प्रियाम् । सर्वलोकप्रणेत्रौञ्च प्रणमामि सदाशिवाम् । मङ्गलां शोभनां शद्धां निष्कलां परमां कलाम् । विश्वेश्वरी विश्वमातां चण्डि कां प्रणमाम्यहम्। सर्वदेवमयीं देवीं सर्वलोकभयापहाम्। ब्रह्मेशविष्णुनमिताम् प्रणमामि सदाशिवाम्। बिन्ध्यस्थां विध्यनिलयां दिव्यस्थाननिवासिनीम्। योगिनी योगमातां च चण्डि कां प्रणमाम्यहम्। ईशानमातरं देवौमौखरीमौखरप्रियाम्। प्रणतोऽस्मि सदा दुगों संसारार्णवतारिणीम्। य इदं पठति स्तोत्र शृणुयाहापि यो नरः । स मुक्तः सर्वपापेभ्यो मोदते दुर्गया सह। ___ अथ वरप्रार्थनम् । ओं महिनि महामाये चामुण्डे मुण्ड. मालिनि। आयुरारोग्यविजयं देहि देवि नमोऽस्तु ते। भूतप्रेतपिशाचेभ्यो रक्षोभ्यः परमेश्वरि। भयेभ्यः मानुषेभ्यश्च देवेभ्यो रक्ष मां सदा । सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके । उमे ब्रह्माणि कौमारि विश्वरूपे प्रसौद मे । रूपं देहि यशो देहि भाग्यं भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे। चन्दनेन समालले कुङ्कुमेन विलेपिते। विल्वपत्रक्वतापोड़े दुर्गे त्वां शरणं गतः । इत्युच्चार्य मूलमन्त्रण पुष्पाञलित्रयं दद्यात्। ततो यथाकालमवव्यञ्जनपूपपाय. सादिकमुपानीय पूर्वोत्तमन्त्रेण दत्त्वा पानाथें वासितजलम् आचमनीयं ताम्बूलञ्च दद्यात्। गीतवाद्यादिभिः शेषकालं नयेत्। इति सप्तमीपूजा।
अथ महाष्टमीपूजा। तव पूर्वाषाढ़ायुताष्टम्यां केवलायां वा कृतस्नानादिराचान्तः पूर्वमुख उदङ्मुखो वा दर्भासने उपविश्य भूतशुद्धिं कुर्य्याद यथा। सोऽहमिति मन्त्रेण जीवात्मानं
For Private and Personal Use Only