________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४४
इन्दोगहषोन्सर्गतत्वम्।
गोयानकालौनाक्षमङ्गादिविपदि तबिमित्तके होमे 'लौकिक वैदिके चैव हुतोच्छिष्टे जले क्षिती। विखदेवस्तु कर्तव्यः पञ्च. सूनापनुत्तये' इत्याद्युक्तजलक्षित्यादिहोमषु सोमरसाहुतिषु इमस्य नित्तिरित्यर्थः । गोभिल: 'वर्हिषि स्थालौपाकमासाद्य इधमभ्याधायाज्य संस्कुरुते' इति आस्तीर्ण कुशेषु चरूविधाय समिधमग्नावाधाय ज्वलनार्थत्वादमन्त्रकम्। तथाच कात्यायनः 'इमोऽप्ये धार्थमेवाग्नेहविराहुतिषु स्मृतः' । प्राज्यमाह खासंग्रहे 'अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । चतुर्मिरेव यत् पूतं तदाज्यमितरद वृतम्। वृतं वा यदि वा तैलं पयो वा दधि यावकम् । प्राज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते' शेषवचनं यजपाऊयमपि संस्कारविधिमाह गोभिलः। 'तत एव वर्हिषः प्रादेशमात्रे पवित्रे कुरुते'। इति तत प्रास्त तात् प्रादेशमात्रे विस्तततर्जन्यअष्टप्रमाणे द्विवचनं दलापेक्षं न तु 'अनन्तर्गमिणं मार्ग कौशं हिदलमेव च । प्रादेशमात्र विज्ञेयं पवित्र यत्र कुनचित्' इति कात्यायनोक्तहिदलपवित्रस्य हित्वं तथाले प्रादेशमात्र इति व्यर्थं स्यात् प्रतएव कात्यायनेनैव आज्यस्योत्पवनार्थं यत्तदप्य तावदेवत्वेकत्वेन निर्दिष्टम् अनन्तगर्भिणमन्तर्गर्भस्याभावोऽनन्तगर्भ तद्युक्तमन्तर्गर्भशून्यमित्यर्थः । 'अनन्तस्तरुणौ यो तु कुशौ प्रादेशसम्मितौ। अनखच्छेदिनी सायौ तौ पवित्राभिधायको' इति शौनकवचनैकवाक्यत्वात्। अत्र दलेऽपि कुथपदप्रयोगः । गोभिल: ओषधिमन्तर्धाय छिनत्ति न नखेन पवित्रस्थो वैष्णव्याविति' ब्रौद्यादिकमन्तराकत्वा गोभिल: 'प्रथैने पहिरनुमाष्टि विष्णोर्मनसा पूर्तस्थः' इति। एने पवित्रे। 'संपूयोतपुनात्युदगग्राभ्यां पवित्राभ्यामङ्गष्ठाभ्यां चोपकनिष्ठाभ्यां
For Private and Personal Use Only