SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । येष्टौ कृतायां दौचितत्वं भवति तेन दीक्षणो ये ट्युत्तरकाल यजमानस्य यत् कर्म तत्राशौच नास्ति । अभिषिकेषु क्षत्रियनृपतिषु तीर्थं गङ्गादिगुरुरिति कश्चित् । कालमाधवीयकूर्मपराणं 'काम्योपवासे प्रक्रान्ते अन्तरा मृत सूतके । तत्र काम्यव्रतं कुर्य्यादानाचैनविवर्जितम् । तत्र दानार्श्वनं स्वयं वर्जयेत् अन्यद्वारा तु कारयेत् । तथाच मत्स्यपुराणम् । गर्भिणी सूतिकानक्त कुमारी च रजखला । यदा शुद्धा तदान्येन कारयेत् क्रियते सदा । उपवासाचरणे गर्भादिपोड़ा सम्भावनायां नक्त भोजनं कुर्य्यात् । 'उपवासेष्वशक्तस्व तदेव फलमिच्छतः । अनभ्यासेन रोगाणां किमिष्टं व्रतमुच्यताम्' । इति नारदप्रश्नानन्तरम् । 'उपवासेष्वशक्तानां नक्त' भोजनमिष्यते' इति मत्स्यपुराण एवेश्वरप्रतिवचनात् । स्वयमशहा शुद्धद्वारा पूजादिकं कारयेत् कायिकमुपवासादि सदा शुद्धाशुद्धिकाले स्वयं क्रियते स्मृतिपरिभाषायामध्ये वं विष्णुः । ' बहुकालिकसंकल्पो गृहीतख पुरा यदि । सूतके मृतके चैव व्रतं तचैव दुष्यति' । एतत् काम्यव्रतपरं नित्यामावाख्यानामविशेषेण कर्त्तव्यता न अशौचमित्यनुवृत्तौ ब्रह्मपुराणं 'नैष्ठिकस्याथ वान्यस्य भिक्षार्थं प्रस्थितस्य च' । नैष्ठिकस्य ब्रह्मचारिविशेषस्य अन्यस्य चतुर्थाश्रमिणः अशौचभिक्षाग्रहणे दोषाभाव इति हारलताप्रभृतयः । कौमें 'सद्यः शौच समाख्यातं दुर्भिचे चाप्युपप्लवे । डिम्बाहवहतानाञ्च विद्यता पार्थिवैर्द्विजैः । सद्यः शौच समाख्यातं शापादिमरणे तथा । उपप्लवे राजविप्लवे औपसर्गिकात्यन्तमरकपौड़ने च सद्यः शौचमुक्त ं तथाच पराशरः । ' उपसर्ग मृते चैव सद्यः शौच विधीयते' । अतएव 'आपद्यपि च कष्टायां सद्यः शौच विधीयते । इति याज्ञवल्कयवचनेऽनिरुद्द भट्ट । For Private and Personal Use Only २८१
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy