________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दू
एकादशीतत्त्वम् ।
अनंतनानि कथ्यन्ते सकदेतानि शास्त्रतः । इति कर्त्तव्यतायां स एव । 'प्रभुक्त्वा प्रातराहारं स्नात्वाचम्य समाहितः । सूय्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत् । ब्रह्मचर्य्यं तथा सत्य' शौच मामिषवर्जनम् । व्रतेष्व तानि चत्वारि वरिष्ठानीति निखयः । प्रात: व्रतमाचरेदित्यन्वयः । प्रधानपदार्थान्वयस्थाभ्यर्हितत्वात् । प्रातः सङ्कल्पयेदिति वचनैकवाक्यत्वाच्च । अभुक्ता आहारमित्यर्थात् पूर्वदिने एकभक्तत्वमायाति । नन्वाहारस्य रागप्राप्तत्वात् अनुपादेयतया उद्देश्यस्य एकत्व संख्यायाः सम्मार्जनन्यायेनाविवचितत्वं युक्तमिति । स च न्यायस्तृतीयाध्याये निरूपितः । यथा ज्योतिष्टोमे । कुशपवित्रेण ग्रहं संमा'ति श्रूयते तत्र संशयः किमेकग्रहस्य सम्मार्जनमुत ग्रहैर्जुहो तीति वाक्येन प्राप्तानां । दशग्रहाणां तदर्थं किमुद्देश्यगता संख्या विवक्षिता नवेति । यथा पशुना यजेतेत्यत्र एकवचनश्रुतिवलादुपादेयपशुगता संख्या विवचिता तथैव ग्रहमित्येक'वचनश्रुतिवलादुद्देश्यगतापि संख्या विवक्षिता भवितुमर्ह तोति । तस्मदेकस्यैव ग्रहस्य सम्मार्जने प्राप्त सिद्धान्तयति 'पशोर्वाक्यान्तरेणाप्राप्तत्वादनेनैव वाक्येन यागसम्बन्धावगमादयागं प्रति पशोर्गुणीभावात् यावद्गुणं प्रधानस्य प्रवृत्त्यभावात् कियता पशुनेत्यवच्छेदकाकाङ्क्षायां तदवच्छ दकत्वेनैकत्वसंख्या संवध्यत इत्युपादेयगतायाः संख्याया विवचितत्वं युक्तं ग्रहाणान्तु वाक्यान्तरेण यागसम्बन्धावगमात् सम्मार्जनवाक्ये द्वियात्या सम्मार्जनं प्रतिग्रहस्य प्राधान्यावगमात् यावत् प्रधानं गुणस्य सम्मार्जनस्यावर्त्तनीयत्वात् कियन्तीग्रहाः सम्माजनीया इत्याकाङ्क्षायामनुपादेयग्रहगता संख्या न विवक्षितेति माधवाचार्यः । उत्तरमीमांसायां कल्पतरुस्तु किञ्चिद्दिधातु सिद्धवनिर्देश्यत्वम् उद्देश्यत्वम् अनुष्ठेयत्वेन निर्देश्यत्वमुपा
For Private and Personal Use Only