________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् |
१७
दशमदिनं व्याप्य अभिविधावां जातकर्म कृत्वा न खानाईता सद्यो जाते एनो नास्तीति वचनादिति सरला ।
अथ नामकरणम् । तत्र गोभिलः । " जननाद्दशराचे व्युष्टे शतरात्र े वा संवत्सरे वा नामधेयकरणम्” । व्युष्ट गते । तथा च श्रुतिः । “ एकादशे द्वादशे वाहनि पिता नाम कुर्य्यात्” एकादश इति मुख्यकल्पः । समर्थस्य चेपायोगात् इति न्यायात् । अतएव भट्टभाष्ये श्रुतिः । “नश्खः समुपासीत की समर्थस्य वो वेदेति । एतञ्च प्रशस्ततरतमपरपरकालकर्मेतरपरम् । अथ यस्तत् करिष्यन् भवति पञ्चादग्नेरुदम. ग्रेषु दर्भेषु प्रागुपविशति । अथेति जन्म गृहाभ्यन्तरे अन्यथा चन्द्रदर्शनात् प्राक् तद्दहिर्गमनं स्यात् । य इत्यनेन पितुरभावेऽन्योऽप्यधिकारो। अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत उदञ्चं कर्मकर्ते प्रयच्छति उदक्शरसमनुपृष्ठ पविक्रम्योत्तरत उपविशति उदगग्रेषु कुशेषु श्राच्छाद्य चाडीषदर्थे तेन मुखवजें छादयित्वा दक्षिणतः पत्य ु दक्षिणतः स्थित्वा उदञ्च मुत्तानम् अनुपृष्ठं कर्तुः पश्चिमदेशं परिक्रम्य गत्वा । अथ जुहोति प्राजापतये तिथये नच्चत्राय देवतायै" इति । तिथये नक्षत्राय कुमारस्येति शेषः । देवतायै तिथिमनयोरित्यर्थः । तथा च बह्वृचग्गृह्यम् । " तन्मध्ये जुहु - याद यस्मिन् जातः स्वात् इति” ॥ तिथयः प्रतिपदाद्या: तद्देवताः ब्रह्मत्वष्टृ विष्णुयमसोम कुमार मुनिव सुपिशाचधमंरुद्रवायुमन्मथयक्षपितरः । पौर्णमास्यां विश्वेदेवाः । एषां होमे विशेषमा छन्दोगपरिशिष्टम् । "नामधेये मुनिवसुपिशाचाबहुवत्सदा । याच पितरो देवा यष्टव्या तिथिदेवताः ॥ तेन मुन्धादयो बहुवचनान्ता होतव्या इति शेषाः एकवचनान्ता होतव्याः । नचत्राख्य विन्यादौनि । देवता ज्योतिषे प्रवि
For Private And Personal Use Only
་