________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
नमम्याम् उभयत्र पूर्वाह्न लाभे तु पूर्वदिन एव युग्मात् अत्र केवल नवम्यां बोधनविधेर्नक्षत्रस्यापि गुणफलत्वाच। "माधे वा फाल्गुने वापि भवेद माघसप्तमौ। माकरौति च यत् प्रोक्तं तत् प्रायो हत्तिदर्शनात्” इति सौरागमान्माकरोति च वत् आयोग इत्यस्य प्रायिकत्वेनाभिधानं प्रतीयते । ततश्चारहितबोधने मन्त्रान्तरानुपदेशात्तद्युक्तमन्त्रः प्रणवयुक्तत्वेन प्रयुज्यते। “यबानञ्चातिरिक्तञ्च यच्छिद्रं यदयनियम्। यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् । तदोङ्कारप्रयुक्तेन सर्वसाविकलं भवेत्” । इति योगियाज्ञवल्कावचनात् ।
षष्ठोबोधनेऽप्येवं नवम्यां बोधनासामर्थ्य तु षष्ठयां सायं बोधनं यथा भविष्ये “षष्ठयां विल्वतरौ बोधं सायं सध्यासु कारयेत्” सन्ध्योक्ता वराहमिहिरेण। “अस्तिमयात् सन्ध्या व्यक्तीभूता न तारका यावत्" । षष्ठयां बोधने तु प्रागुक्त “ऐ रावणस्य बधार्थाय” इति “अहमप्याखिने षष्ठयां सायाझे बोधयाम्यत:" इति च पठेत्।
अत्र बोधनामन्त्रणयोः पृथक्त्वं तत्प्रकाशकमन्त्रभेदात् अत्र बोधनमन्त्रावुक्तावेव आमन्त्रणमन्त्री तु "मेरुमन्दरकैलासहिमवच्छिखरे गिरी"। इत्यादि प्रागुक्त देवीपुराणे नवमौषष्ठयोर्बोधनामन्त्रणयोः पृथक्त्वाभिधानाच। ततश्च षष्ठयामुभयकरणेऽपि पत्रौप्रवेश पूर्वदिने सायं षष्ठौलामे एकदैवोभयकरणम्। यदा तु पूर्वदिने सायं षष्ठोलाभ: न परदिने सायं षष्ठीलाभः तदा पूर्वेधुर्बोधनं परदिने सायमामम्वणम्। यदा तु उभयदिने सायं षष्ठालाभस्तदा परदिने पूर्वाह षष्ठयां बोधनं “बोधयेहिल्वशाखायां षष्ठयां देवों फलेषु च। सप्तम्यां विल्वशाखां तामाहृत्य प्रतिपूजयेत् ॥ पुन: पूजां तथाष्टम्यां विशेषेण समाचरेत् । जागरञ्च स्वयं कालिदानं महानिशि ॥ प्रभूतवलिदानञ्च नवम्यां विधिवञ्चरेत्। ध्यायेद्दशभुजां देवी दुर्गामन्त्रेण पूजयेत्॥ विसजनं दशम्यान्तु कुर्य्यादै शावरोत्सवैः। धूलिकर्दमविक्षेपः कोड़ाकोतुकमङ्गलैः भगलिङ्गाभिधानश्च भगलिङ्गप्रगौतकैः” ॥ इति कालिकापुराणात्। शवरो म्लेच्छः शाखां विशेषयति
For Private And Personal Use Only