________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८६७
पुनरेवाभिघारयेत्” । मेक्षणादौनाह छन्दोगपरिशिष्टम् । “जातीय मियाप्रमाणं मेक्षणं भवेत् । वृत्तं वार्त्तञ्च पृथ्वग्रमवदानक्रियाक्षमम्” । इमाई प्रमाणं प्रादेशइयमिधमस्य प्रमाणं परिकल्पितमिति । तदई एषैव दव विशेषस्तु महासुवे । " दवदाङ्गलपृथ्वया तुरौयेण तु मेक्षणम् । मुषलोदूखले वा स्वायते सुदृढ़े तथा । इच्छाप्रमाणे भवतः सूर्प वैष्णवमेव च । भन तिर्य्यगू त्यादि वैणवमेव चेत्यन्तेन सर्वङ्गअभिधाय भूमिजप परिसमूहन हस्तविन्यासं कुर्य्यादित्युक्तम् ।
अथ भूमिजपादिविधानं तदाह चतुर्थे प्रथम का ण्डिकायां गोभिलः । “ पचादग्नेर्भूमौ न्यश्च पाणी प्रतिस्थाप्य” इति । भूमेर्भजामह इति वस्वन्तं रात्रौ धनमिति दिवेति इदमिति मन्त्रं वखन्तं विन्दते वसु इति रात्रौ दिवा क्रियमाणे कर्मणि धनमित्यन्तं जपेत् । विन्दते धनमिति । अत्र विन्यासे विशेषमा छन्दोगपरिशिष्टं "दक्षिणं वामतो वाद्यमात्माभिमुखमेव च । करं करेण कुर्वीत करणे न्यच्च कर्मणः । कृत्वाग्न्यभिमुखौ हस्तौ स्वस्थानस्थौ सुसंहतौ । प्रदक्षियं तथासोनः कुय्यात् परिसमूहनम् ” । करेणेति षष्ठायें तृतौया । दक्षिणस्तमधोमुखं तथाविधवामहस्तस्य पृष्ठोपरि भावे न विपर्यस्तमात्माभिमुखं भूमिनपे कुर्य्यादित्यर्थः । अग्न्यभिमुखौ नात्माभिमुखो स्वस्थानस्थौ न तु भूमिजपवद्दास्त सुसंतौ विस्तृत लग्नौ तथा चाग्नः परिसमूहनं विचिप्तावयवानाम् एकीकरणरूपं सुकरं स्यात् । एवमेव भट्टनारायणोपाध्यायौ | एतेन च दक्षिणहस्तेन कुशान् गृहौत्वेति भवदेव भट्ट लिखनं निष्प्रमाणम् । इमं स्तोममईते इति तृप्रचेन परिसमूहेदिति सूत्रस्य भाषेयम् एतदनुसारादेव ब्रह्मस्थापनानन्तरं भूमिनपपरिसमूहनादिति भवदेवभट्टवीरेश्वरोक्त युक्तम् । भट्टभाष्ये
For Private And Personal Use Only