________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम्।
नमो गणेशाय। प्रणम्य सच्चिदानन्दं भास्करं जगदीश्वरम् । ज्योति:शास्त्रस्य तत्त्वानि वक्ति श्रीरघुनन्दनः ॥ "राश्यादिनिर्णयस्तत्र चन्द्रादेव प्रतिक्रिया। प्रकोण सर्वतोभद्रं बालाघुपयमन्तथा ॥ गर्भाधानं सवः पुंसां सौमन्तो जातभद्रता। जातनाम कनिष्कामक्रियानाशनचूड़काः ॥ कर्ण वेधस्तथा विद्यारम्भोपनयनिर्णयः । गृहायं कृषिराङ्गत्यं यानं छत्रं नृपासनम् ॥
अथ राश्यादिनिर्णयः । “मेषवृषमिथुन कर्कटसिंहाः कन्यातुलाध वृश्चिकभम्। धनुरथ मकरः कुम्भो मौन इति च राशयः कथिताः" ॥ राशिकथनम्। “अखिन्या सह भरणी कत्तिकापादः कीर्तितो मेषः। वृषभः कृत्तिकाशेषं रोहिसर्वच मृगशिरसः ॥ मृगशिरसोऽई चार्दा पुनर्वसोस्त्रिपाद मिथुनम् । पादः पुनर्वसोरन्त्यः पुथोऽश्लेषा च कर्कटः । सिंहोऽथ मघा पूर्व फल्गुनौपाद उत्तरायाः। तच्छेषं इस्ताचित्राई कन्यकाख्यः तौलिनि चिताई खातीविशाखायाच पादत्रयं अलिनि विशाखापादस्तथानुराधान्विता ज्येष्ठा । मूलं पूर्वाषाढ़ा प्रथमवाप्युत्तरांशको धन्वी। मकरस्तत्परिशेषं श्रवणा चाई धनिष्ठायाः। कुम्भोऽथ धनिष्ठाई शतभिषापौर्वभाद्रपदत्रयम्। भाद्रपदायाः शेषस्तथोत्तरा रेवतो मौनः ॥ राशिनचनभेदकथनम्। “राशिनामानि च ।
For Private And Personal Use Only