________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्वम्। मोहरे। भात्योदके हिजः स्नायात्रदीचोत्सृज्य कृत्रिम । इति बहुभितम्। ब्रह्मपुराणे "नित्यं नैमित्तिकं काम्य विविधं स्नानमिष्यते। तपणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम् ॥ नित्यमहरहः क्रियमाणं “यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः" इति छन्दोगपरिशिष्टोक्तं प्रातमध्यानसम्बन्धि नैमित्तिकं सूर्यग्रहणादावावश्यकं कायं न तु चाण्डालादिस्पर्शनिमित्तकम्। “श्मश्रु कम्माश्रुपातच मैथन छदनं तथा। अस्पृश्य स्पर्शनं कृत्वा स्नायाहा जलक्रिया:" ॥ इति ब्रह्मपुराणे तणनिषेधात् काम्यं वर्गादिफलकं तीर्थादिस्नानं तर्पणस्याङ्गत्वात् येन कल्पेन स्नानं तर्पणं तेन कल्पेन । किन्तु "यन्नाम्ना तं स्वशाखायां परोतामविरोधि च। विहद्भिस्तदनुष्ठेयमग्निहोत्रादिकमवत्” ॥ छन्दोगपरिशिष्टोक्त चकारेणाकाइतमविरोधिपरोक्तमधिकमपि बोध्यम् एवञ्च यद्यपि स्नानाङ्गं तर्पणं तत्प्रयोगान्तर्भवितु मईति तथापि तस्य सध्यानुष्ठानसत्वे सख्योत्तरत्वं वाचनिकं चन्द्रसूर्य ग्रहादौ च सध्यानुष्ठानाभावात् स्नानप्रयोगान्तर्गतमेव। प्रातःस्नानस्थापि यथाहनोत्यनेनाहः स्नानधम्मातिदेशात् तदङ्गतर्पणस्थापि सध्योत्तरता किञ्च गहमेधीय प्रयोगमध्ये अग्निहोत्र. काल भागते तत्पदार्थक्रमानुरोधेन यथाऽग्निहोत्रानुष्ठान तथा स्नानानन्तरं सन्ध्याकाले भागते तर्पणमकत्वैव सध्यानुष्ठानं युक्तमिति विद्याकरः एवञ्च स्नानाङ्गतर्पणादेव पञ्च. यज्ञान्तर्गतत्वेन प्रधानतर्पणस्यापि प्रसङ्गात् सिद्धिः तदाह मनु: “यदेव तर्पयत्यद्भिः पितृन् स्नात्वा हिजोत्तमः। तेनैव सर्वमानोति पिटयनक्रिया फलम् ॥ यत्र तु रोगादिना नानं न कृतं तत्रापि गात्रमार्जनादिना शौचमुत्याद्य पिट. यन्त्रसिद्धये तर्पयेत् । तदाह शातातपः "तपणन्तु शुचिः
For Private And Personal Use Only