________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बाहिरमभितरयं, बारसभेयं जहुत्तरगुणं जं । वणिज्जइ जिणसमए, तं तवपयमेस वंदामि ॥ १२९०॥ तब्भवसिद्धिं जाणंतएहिं सिरिरिसहनाहपमुहेहिं । तित्थयरेहि कयं जं, तं तवपयमेस वंदामि ॥१२९१॥ जेण खमासहिएणं, कएण कम्माणमवि निकायाणं । जायइ खओ खणेणं, तं तवपयमेस वंदामि ॥१२९२॥ जेणे चिय जलणेण व, जीवसुवन्नाउ कम्मकिट्टाइं । फिटुंति तक्खणं चिय, तं तवपयमेस वंदामि ॥१२९३॥ जस्स पसाएण धुवं, हवंति नाणाविहाउ लद्धीओ। आमोसहिपमुहाओ, तं तवपयमेस वंदामि ॥१२९४॥
यत्तपो जिनसमये-जैनसिद्धान्ते बाह्यमभ्यन्तरं चेति द्वादशभेदं वर्ण्यते, कीदृशम् ?-यथोत्तरा-उत्तरोत्तराधिका गुणा यस्मिंस्तद्यथोत्तरगुणम्, तत्तपःपदम् एषोऽहं वन्दे-स्तवीमि॥१२९०॥श्रीऋषभनाथप्रमुखैस्तीर्थकरैस्तद्भवसिद्धिं-तद्भवे एव स्वकीयं मुक्तिगमनं जानद्भिरपि यत्तपः कृतं-समाचरितं तत्तपःपदमेषोऽहं वन्दे॥१२९१॥क्षमासहितेन कृतेन येन तपसा निकाचितानां-निबिडबद्धानामपि कर्मणां क्षणेन क्षयो जायते तत्तपःपदमेषोऽहं वन्दे ॥१२९२॥ ज्वलनेन-अग्निना इव येन तपसा एव जीवसुवर्णात्-जीवरूपस्वर्णात् कर्मकिट्टानि-कर्मरूपकठिनतरमलानि तत्क्षणं-तत्कालमेव 'फिटृति'त्ति अपयान्तिदूरीभवन्तीत्यर्थः, तत्तपःपदमेषोऽहं वन्दे ॥१२९३ ॥ यस्य तपसः प्रसादेन ध्रुव-निश्चितम्, आमक्षैषधिप्रमुखा नानाविधाअनेकप्रकारा लब्धयो भवन्ति-उत्पद्यन्ते तत्तपःपदमेषोऽहं वन्दे ॥ १२९४ ॥
For Private and Personal Use Only