________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जं पडिवन्ना दमगाइणोऽवि जीवा हवंति तियलोए । सयलजणपूयणिज्जा, तं चारित्तं जए जयइ ॥१२८६॥ जं पालेंताण मुणीसराण पाए णमंति साणंदा । देविंददाणविंदा, तं चारित्तं जए जयइ ॥१२८७॥ जं चाणंतगुणंपि हु, वणिज्जइ सतरभेअदसभेअं । समयंमि मुणिवरेहि, तं चारित्तं जए जयइ ॥१२८८॥ समिईओ गुत्तीओ, खंतीपमुहाओ मित्तियाईओ। साहंति जस्स सिद्धिं, तं चारित्तं जए जयइ ॥१२८९॥
यच्चारित्रं प्रतिपन्ना-अङ्गीकृतवन्तो द्रमकादयो-रङ्कादयोऽपि जीवास्त्रैलोक्ये सकलजनानां सर्वलोकानां पूजनीया भवन्ति तच्चारित्रं जगति जयति ॥ १२८६ ॥ यच्चारित्रं-पालयतां मुनीश्वराणां पादान्-चरणान् देवेन्द्रदानवेन्द्राःसुरासुरेन्द्राः सानन्दाः-सहर्षाः सन्तो नमन्ति तच्चारित्रं जगति जयति ॥ १२८७ ॥च - पुनः यच्चारित्रं अनन्ता गुणा यस्मिंस्तदनन्तगुणमपि 'हु' इति निश्चयेन समये - सिद्धान्ते मुनिवर्यैः सप्तदशभेदं दशभेदं च वर्ण्यते, सप्तदश भेदा यस्य तत्तथा, तच्च-पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१॥ इत्येवंरूपं, तथा दश भेदा यस्य तद्दशभेदं, तं च-'खंती मद्दव अज्जवें त्यादिरूपं प्रसिद्धमेव, तच्चारित्रं जगति जयति ॥ १२८८ ॥ समितयः-पञ्च ईर्यासमित्याद्याः गुप्तयः-तिम्रो मनोगुप्ताद्याः क्षान्तिप्रमुखा दशयतिधर्मभेदाः, मैत्राद्याश्चतस्रो भावनाः, मैत्री - प्रमोदकरुणामाध्यस्थ्याख्याः, एते पदार्था यस्य चारित्रस्य सिद्धिं-निष्पत्तिं साधयन्ति, तच्चारित्रं जगति जयति ॥ १२८९॥
For Private and Personal Use Only