________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
ལྭ་
२८७
*
*
*
*
**
*
*
*****+
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir 本
सव्वन्नुपणीयागमभणियाण जहट्ठियाण तत्ताणं । जो सुद्धो अवबोहो, तं सन्नाणं मह पमाणं ॥ १२७२॥ जे भक्खाभक्खं, पिज्जापिज्जं अगम्ममवि गम्मं । किच्चाकिच्चं नज्जइ, तं सन्नाणं मह पमाणं ॥ १२७३॥ सयलकिरिआण मूलं, सद्धा लोअंमि तीइ सद्धाए । जं किर हवेइ मूलं तं सन्नाणं मह पमाणं ॥ १२७४॥ जं इसुअओहिमयं, मणपज्जवरूवकेवलमयं च । पंचविहं सुपसिद्धं, तं सन्नाणं मह पमाणं ॥ १२७५॥
सर्वज्ञैः-अर्हद्भिः प्रणीताः-प्रज्ञप्ता ये आगमाः- सिद्धान्तास्तेषु भणितानां प्रोक्तानां यथास्थितानां सद्भूतानां तत्त्वानाम्वादिपदार्थानां यः शुद्धोऽवबोधो-ज्ञानं तत् सत् ज्ञानं मम प्रमाणमस्तीति शेषः ॥ १२७२ ॥ येन ज्ञानेन भक्ष्यं च अभक्ष्यं च ज्ञायते, तथा पेयं च अपेयं च ज्ञायते, अगम्यं गम्यमपि च वस्तु ज्ञायते, कृत्यं च अकृत्यं च ज्ञायते, तत् सत् ज्ञानं मम प्रमाणम्, अत्रायं भावः- भक्ष्यम् - अन्नादि, अभक्ष्यं -मांसादि, पेयं वस्त्रपूतजलादि, अपेयं-सुरादि, गम्यं-स्वस्त्र्यादि, अगम्यंपरस्त्रीभगिन्यादि, कृत्यम्- अहिंसादि, अकृत्यं-हिंसादीति, ज्ञानं विना एतद्विवेको न भवतीत्यर्थः ॥ १२७३ ॥ लोके सकलक्रियाणां - सर्वशुभानुष्ठानानां मूलं श्रद्धाऽस्ति, तस्याः श्रद्धाया मूलं किलेति निश्चयेन यद् ज्ञानं भवति, तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७४ ॥ यद् ज्ञानं पञ्चविधं पञ्चप्रकारं सुप्रसिद्धं, तदेव पञ्चविधत्वं विशेषणद्वारेणाह- कीदृशम् ? -मति १ श्रुता २ ऽवधयः ३ स्वरूपमस्येति-मतिश्रुतावधिमयं च - पुनः मनः पर्यव ४ केवल ५ स्वरूपमस्येति मनः पर्यवकेवलमयं तत्सज्ज्ञानं मम प्रमाणम् ॥ १२७५ ॥
For Private and Personal Use Only
**********