________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******
********************
जे बारसंगसज्झाय-पारगा धारगा तयत्थाणं । तदुभयवित्थाररया, तेऽहं झाएमि उज्झाए ॥१२४५॥ पाहाणसमाणेऽवि हु, कुणंति जे सुत्तधारया सीसे । सयलजणपूयणिज्जे, तेऽहं झाएमि उज्झाए ॥१२४६॥ मोहाहिदट्ठन?पनाणजीवाण चेयणं दिति । जे केवि नरिंदा इव, तेऽहं झाएमि उज्झाए ॥१२४७॥ अन्नाणवाहिविहुराण पाणिणं सुअरसायणं सारं । जे दिति महाविज्जा, तेऽहं झाएमि उज्झाए ॥१२४८॥ गुणवणभंजणमणगय-दमणंकुससरिसनाणदाणं जे । दिति सया भवियाणं, तेऽहं झाएमि उज्झाए ॥१२४९॥
येद्वादशाङ्गस्वाध्यायस्य पारगाः-पारगामिनः पुनः तदर्थानां-द्वादशाङ्ग्या अर्थानांधारकाः, पुनः तदुभयस्य-सूत्रार्थरूपस्य विस्तारे रता-रक्तास्तानुपाध्यायानहं ध्यायामि॥१२४५॥ये गुरवो हु इति निश्चितं पाषाणसमानान्-प्रस्तरतुल्यानपि शिष्यान् सूत्रधारया-सूत्ररूपतीक्ष्णशस्त्रधारया सकलजनानां सर्वलोकानां पूजनीयान् कुर्वन्ति, तानुपाध्यायान् अहं ध्यायामि ॥१२४६॥ मोह एव अहिः-सर्पस्तेन दष्टा, अत एव नष्टमात्मज्ञानं येषां ते नष्टात्मज्ञानाः, एवम्भूता ये जीवास्तेभ्यो ये केपि गुरवः चेतनाचैतन्यं ददति, के इव ?-नरेन्द्रा इव-विषवैद्या इव, तानुपाध्यायानहं ध्यायामि ॥१२४७॥ अज्ञानमेव व्याधिः-रोगस्तेन विधुराःपीडितास्तेभ्यः प्राणिभ्यः सारं-प्रधानं श्रुतमेव रसायनं महारोगनाशकौषधं ये महावैद्या इव गुरवो ददति तानुपाध्यायानहं ध्यायामि॥१२४८ ॥गुणा एव वनानि तानि भजन्तीति गुणवनभञ्जना ये मदा-जातिमदादयोऽष्टौते एव गजा-हस्तिनस्तेषां दमने-वशीकरणे अङ्कुशसदृशं यद् ज्ञानं तस्य दानं ये गुरवो भव्येभ्यः सदा ददति तानुपाध्यायान् अहं ध्यायामि ॥१२४९॥
For Private and Personal Use Only