________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
विणओणयाउ ताओ, सरूवलावन्नखोहिअसहाओ । विणिवेसिआउ रन्ना, नेहेणं उभयपासेसु ॥७॥ हरिसवसेणं राया, तासिं बुद्धिपरिक्खणनिमित्तं । एगं देइ समस्सा-पयं दुविन्हंपि समकालं ॥७१॥ , यथा "पुन्निहिँ लब्भइ एहु," तो तकलं अइचंचलाइ, अच्चंतगबगहिलाए। सुरसुंदरीइ भणियं, हुं हुं पूरेमि निसुणेह ॥७२॥ यथा-धण जुब्बण सुवियड्डपण,रोगरहिअ निअदेहु । मणवल्लह मेलावडउ, पुन्निहि लब्भइ एहु ॥७३॥ तं सुणिय निवो तुट्ठो, पसंसए साहु साहु उज्झाओ । जेणेसा सिक्खविया, परिसावि भणेइ सच्चमिणं ॥७४॥
विनयेन अवनते-नने तथा स्वरूपलावण्येन क्षोभिता-चमत्कारं प्रापिता सभा याभ्यां ते एवंविधे ते द्वे कन्ये राज्ञा स्नेहेन स्वस्य उभयोः पार्श्वयोः विनिवेशिते-स्थापिते उपवेशिते इति यावत् ॥७०॥ राज्ञा हर्षवशेन तयोर्बुद्धिपरीक्षानिमित्तं ताभ्यां द्वाभ्यामपि कन्याभ्यां समकामेकं समस्यापदं ददाति ॥७१॥ एतत् समस्यापदं राज्ञा दत्तं, ततस्तदन्तरं तत्कालं सुरसुन्दर्या भणितम्, अहो अहमेतां समस्यां पूरयामि,यूयं शृणुत,कीदृश्या सुरसुन्दर्या ? - अतिचञ्चलया-अतिशयेन चपलया-पुनरत्यन्तगर्वेण ग्रथिलया ॥७२॥ धनं, यौवनं, सुविदग्धत्वं - छेकत्वमित्यर्थः, तथा रोगरहितो निजदेहः-स्वशरीरं, तथा मनसो वल्लभःप्रियो यः पुरुषादिस्तेन सार्धं मेलः -सम्बन्धः, एतद्वस्तुवृन्दं पुण्यैर्लभ्यते ॥७३॥ तत् सुरसुन्दरीवाक्यं श्रुत्वा नृपो-राजा तुष्टः सन् प्रशंसते-इत्थं प्रशंसा करोति स्म, कथमित्याह- उपाध्यायोऽस्याः पाठको-गुरु साधुः -समीचीन इत्यर्थः, येनैषा पुत्री इत्थं शिक्षिता-पाठिता, तदा पर्षदपि भणति हे महाराज ! इदं सत्यम्-अत्र किमपि मृषा नास्तीत्यर्थः ॥७४॥
*****************************
For Private and Personal Use Only