SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जओ- साहूणं हीलाए, हाणी हासेण रोयणं होइ । निंदाइ वहो बंधो, ताडणया वाहिमरणाई ॥११२६॥ मुणिमारणेण जीवाणऽणंतसंसारिआण बोहीवि । दुलहा चिअ होइ धुवं, भणिअमिणं आगमेवि जओ ॥११२७॥ चेइअदबविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥११२८॥ तं सोऊण नरिंदो, किंपि समुल्लसिअधम्मपरिणामो । पभणेइ अहं पुणरवि, न करिस्सं एरिसमकज्जं ॥ ११२९॥ यत उक्तं शास्त्रे, साधूनां हीलया हानिर्भवति, साधूनां हास्येन-हसनेन रोदनं भवति, साधूनां निन्दया बन्धो वधश्च भवति, साधूनां ताडनया व्याधिमरणादिः-रोगप्राणवियोगादिर्भवति ॥११२६॥ मुनिमारणेन अनन्तः संसारोऽस्त्येषामित्यनन्तसंसारिकास्तेषां जीवानां बोधिः-जिनधर्मप्राप्तिरपि ध्रुवं-निश्चितं दुर्लभैव भवति, यत आगमेसिद्धान्तेऽपि इदंभणितम्-उक्तमस्ति ॥११२७॥ किमित्याह-चैत्यद्रव्यं-जिनगृहसम्बन्धि द्रव्यं तस्य विनाशे-भक्षणोपेक्षणादिना मूलतो ध्वंसे तथा ऋषिधाते-साधुमारणे तथा प्रवचनस्य-चतुर्विधसङ्घस्य उड्डाहे-कलङ्कदानादिनाऽपवादकरणे तथा संयत्याःसाध्याश्चतुर्थव्रतस्य-ब्रह्मचर्यस्य भङ्गे बोधिलाभस्य-अर्हद्धर्मावाप्तेर्मूलेऽग्निर्दत्तः, एतावता एतत्कर्तुः पुनः सद्धर्मलाभो दुर्लभ एवेति (आवश्यकनियुक्तौ)॥११२८॥ तत् राजीवचनं श्रुत्वा नरेन्द्रो-राजा प्रभणति, कीदृशो नरेन्द्रः ?-किमपि समुल्लसितो धर्मपरिणामो यस्य स तथा, किं कथयतीत्याह -अहं पुनरपि ईदृशमकार्यम्-अकृत्यं न करिष्यामि ॥११२९॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy