________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तं चेव भणंतेहिं, तेहिं वठेहिं दुट्ठचित्तेहिं । उवसग्गिओ मुणिंदो, खमापरो लिठ्ठलट्ठीहिं ॥१११७॥ जह जह ताडंति मुणिं, ते दुवा तह तहा समुल्लसइ । हासरसो नरनाहे, मुणिनाहे उवसमरसो अ॥१११८॥ ते कयमुणिउवसग्गा, निब्भग्गा हणिअभूरिमयवग्गा । नरवइपुट्ठिविलग्गा, पत्ता निअयंमि नयरंमि ॥१११९॥ अन्नदिणे सो पुणरवि, राया मिगयागओ नि सिन्नं । मुत्तूण हरिणपुट्ठीइ धाविओ इक्कगो चेव ॥११२०॥ नइतडवणे निलुक्को, सो हरिणो नरवरो तओ चुक्को । जा पिच्छइ ता पासइ, नइउवठे ठिअंसाहुं ॥११२१॥
तदेव-नृपोक्तमेव वचनं भणद्भिः-जल्पद्भिस्तैर्दुष्टचित्तैः वण्ठैः मुनीन्द्रो लेष्टुभिः-लोष्टैर्यष्टिभिः-लकुटैः उपसर्गितउपद्रुतः, कीदृशो मुनीन्द्रः ?- क्षमापरः-क्षमाप्रधानः ॥१११७॥ ते दुष्टा वण्ठा यथा यथा मुनिं ताडयन्ति तथा तथा नरनाथेनृपेहास्यरसः समुल्लसति, मुनिनाथे-मुनीश्वरेच उपशमरसः-शान्तरसः समुल्लसति ॥१११८॥कृतोमुनेरुपसर्गोयैस्ते तथाऽत एव निर्भाग्या-भाग्यहीनाः पुनर्हता भूरयो-बहवो मृगवर्गा-मृगसमूहा यैस्ते तथा, ते वण्ठा नरपते राज्ञः पृष्ठौ विलग्नाः सन्तो निजके-स्वकीये नगरे प्राप्ताः ॥१११९॥ अन्यस्मिन्दिने स राजा पुनरपि मृगयायां गतो निजं सैन्यं मुक्त्वा-त्यक्त्वा एककःएकाकी एव हरिणस्य पृष्ठौ धावितः॥११२०॥स हरिणो नद्यास्तटे यद् वनंतत्र निलुक्कोत्ति घनवृक्षाद्याच्छादितत्वाददृश्यतां गतस्तदा नरवरो-राजा ततो मृगाच्च्युतः सन् यावत्प्रेक्षते-विलोकयति तावन्नद्या उपकण्ठे-समीपे स्थितं साधुं पश्यति ॥११२१॥
For Private and Personal Use Only