________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandie
मयणा नियकुलउज्जालणिक्कमाणिक्कदीवियातुल्ला । अहयं तु चीडउम्माडियब्ब घणजणिअमालिन्ना ॥९८०॥ मयणं ठूण जणा, जएह सम्मत्तसत्तसीलेसु । मं दठूणं मिच्छत्तदप्पकंदप्पभावेसुं ॥९८१॥ इच्चाइ भणंतीए, तीए सुरसुंदरीइ लोआणं । उप्पाइओ पमोओ, जो सो नहु नाडएहिं पुरा ॥९८२॥ सिरिपालेणं रन्ना, वेगेणाणाविओ अ अरिदमणो । सुरसुंदरी य दिन्ना, बहुरिद्धिसमन्निया तस्स ॥९८३॥ सुरसुंदरिसहिएणं, अरिदमणेणावि सुद्धसम्मत्तं । सिरिपालरायमयणापसायओ चेव संपत्तं ॥९८४॥
मदना निजकुलस्य उज्ज्वालने-उज्ज्वलीकरणे प्रकाशने इति यावत् एका-अद्वितीया माणिक्यदिपीकया तुल्या-तत्सदृशी अस्ति, अहकं तु-अहं तु चीडोल्मुके इव निजकुले घनं जनितम् -उत्पादितं मालिन्यं यया सा घनजनितमालिन्याऽस्मि, चीडंश्यामकाचमयमणिकम् उल्मुकम्-अलातम् उम्बाडेति प्रसिद्धम् ॥९८०॥अहो जना- लोका! मदनां दृष्ट्वा सम्यक्त्व सत्त्वर शीलेषु३ यतध्वं-यत्नं कुरुत, सत्त्वं धैर्यमित्यर्थः, मां दृष्ट्वा मिथ्यात्व१ दर्पर कन्दर्प३ भावेषु-मिथ्यादर्शनमानकामविकारेषु यतध्वम् ॥९८१॥ इत्यादि पूर्वोक्तं भणन्त्या-कथयन्त्या तया-सुरसुन्दर्या लोकानां यः प्रमोदो-हर्ष उत्पादितःस हु इति निश्चितं पुरा-पूर्वं नाटकैर्नोत्पादितः ॥९८२॥ ततः श्रीपालेन राज्ञा वेगेन अरिदमनः कुमार आनायितश्च, सुरसुन्दरी बढ्या ऋद्ध्या समन्विता-संयुक्ता तस्मै-अरिदमनकुमाराय दत्ता च, द्वौ चकारौ तुल्यकालं सूचयतः ॥९८३ ॥ सुरसुन्दर्या सहितेन अरिदमनेनापि श्रीपालराजमदनसुन्दर्याः प्रसादत एव शुद्धसम्यक्त्वं सम्प्राप्तम् ॥९८४॥
For Private and Personal Use Only