________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
**********************
असुहकिरियाण चाओ, सुहासु करियासु जो य अपमाओ । तं चारित्तं उत्तमगुणजुत्तं पालह निरुत्तं ॥३१॥ घणकम्मतमोभरहरणभाणुभूयं दुवालसंगधरं । नवरमकसायतावं, चरेह सम्मं तवोकम्मं ॥३२॥ एयाई नवपयाई, जिणवरधम्ममि सारभूयाइं । कल्लाणकारणाई, विहिणा आराहियब्वाइं ॥३३॥ अन्नं च- एएहिं नवपएहिं, सिद्धं सिरिसिद्धचक्कमाउत्तो । आराहंतो संतो, सिरिसिरिपालुब्ब लहइ सुहं ॥३४॥
यः अशुभक्रियाणां-पापव्यापाराणां त्यागश्च - पुनः शुभासु क्रियासु-निरवद्यव्यापारेषु अप्रमादः-अप्रमत्तता तच्चारित्रं यूयं पालयत, कीदृशं तत् ?-उत्तमगुणैर्युक्तम्, पुनः कीदृशं ?-निरुक्तं-पदभञ्जनेन निष्पन्नं, तथाहि- चयः कर्मसञ्चयो रिक्तो भवति अनेनेति चारित्रम् (बाहुलकात् साधु) ॥३१॥ भो भव्याः ! यूयं सम्यक् तपः कर्म-तपःक्रियां चरत-आचरत, कीदृशं तपःकर्म? घनानि-निबिडानि यानि कर्माणि-ज्ञानावरणादीनि तान्येव तमांसि- अन्धकाराणि तेषां भरः-समूहः तस्य हरणे भानुभूतं-सूर्यतुल्यं, पुनः कीदृशं तपः ? -द्वादशाङ्गधरं तपसो द्वादशभेदत्वात्, सूर्यपक्षे लोके द्वादशसूर्याणां रूढत्वात्, नवरमिति विशेषः - सूर्यस्तापकारको भवति इदं तपस्तु अकषायतापं न विद्यते कषायरूपस्तापो यस्मिंस्तत्, एतावता कषायरहितमेव तपः सेव्यमित्यर्थः ॥३२॥ एतानि नवपदानि जिनवरधर्मे-श्रीजिनोक्तधर्मविषये सारभूतानि, अत एव कल्याणकारकाणि सन्ति, तस्माद्विधिना आराध्यानि भवद्भिरिति शेषः ॥३३॥ अन्यच्च-अन्यदपि श्रुणुत, एतैर्नवभिः पदैः सिद्ध-निष्पन्नं श्रीसिद्धचक्रमायुक्त-उद्यमयुक्त आराधयन् सन् श्रीश्रीपालनामा राजा इव सुखं लभते, मनुष्य इति शेषः ॥ ३४ ॥
For Private and Personal Use Only