________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
गणतित्तीसु निउत्ते, सुत्तत्थज्झावणंमि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए ॥२७॥ सव्वासु कम्मभूमिसुं, विहरते गुणगणेहि संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए ॥२८॥ सबन्नुपणीयागमपयडियतत्तत्थसद्दहणरूवं । दसणरयणपईवं, निच्चं धारेह मणभवणे ॥२९॥ जीवाजीवाइपयत्थसत्थतत्तावबोहरूवं च ॥ नाणं सब्वगुणाणं, मूलं सिक्खेह विणएणं ॥३०॥
भो भव्या ! यूयं सम्यक् यथा स्यात्तथा उपाध्यायान् ध्यायत, कीदृशान् उपाध्यायान् ?-गणस्य-गच्छस्य तप्तिषुसारणादिषु नियुक्तास्तान अधिकारिण इत्यर्थः, पुनः ? -सूत्रार्थाध्यापने उद्यतान्-उद्यमवत इत्यर्थः, स्वाध्याये लीनं-मग्नं मनो येषां ते तान् ॥ २७॥ भो भव्या ! यूयं सर्वासु कर्मभूमिषु-भरतादिपञ्चदशक्षेत्रेषु विचरतो मुनिराजान-साधून ध्यायत, कीदृशान् मुनिराजान् ? गुणानां गणैः-समूहैः संयुक्तान्, पुनः ? गुप्तान्-गुप्तित्रययुक्तान्, पुनः?-मुक्तान्- सर्वसङ्गवर्जितान्, पुनः ? निष्ठिता-अन्तं प्राप्ताः कषाया येषां ते तान् ॥२८॥ भो भव्याः ! सर्वज्ञैः प्रणीता-उक्ताः ये आगमाः- सिद्धान्तास्तेषु प्रकटिताः--प्रकटीकृता ये तत्त्वार्थाः - तद्रूपा अर्थास्तेषां यत् श्रद्धानं तद्रूपं दर्शनरत्नप्रदीप-सम्यक्त्वरूपरत्नप्रदीपकं नित्यं-सर्वदा मनोभवने-मनोमन्दिरे धारयत॥२९॥भो भव्याः! जीवाजीवादयो ये पदार्थास्तेषां सार्थः समूहस्तस्य यस्तत्त्वावबोधः-तत्त्वज्ञानं स्वरूपं यस्य तत् एवंविधं च - पुनः ज्ञानं विनयेन-विनयं कृत्वा यूयं शिक्षत, कीदृशं ज्ञानं ? - सर्चगुणानां मूलं - मूलकारणम् ॥३०॥
*******************************
For Private and Personal Use Only