SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तो सहसा मंचाओ कुमरोऽवि पडतओ नवपयाइं । झाएइ तक्खणं चिय, पडिओ मगरस्स पुट्ठीए ॥६३६॥ नवपयमाहप्पेणं, ओसहियबलेण मगरपुट्ठिठिओ । खणमित्तेणवि कुमरो, सुहेण कुंकुणतडे पत्तो ॥६३७॥ तत्थ य वर्णमि कथवि, चंपयतरुवरतलंमि सो सुत्तो । जा जग्गइ तो पिच्छइ, सेवापरसुहडपरिवेढं ॥६३८॥ विणओणएहिं तेहिं, भडेहिं पंजलिउडेहिं विन्नत्तं । देव ! इह कुंकणक्खे, देसे ठाणाभिहाणपुरे ॥ ६३९ ॥ वसुपालो नाम निवो, तेणं अम्हे इमं समाइट्ठा । जलहितडे जं अचलंतछायतरुतलसमासीणं ॥६४०॥ ततः सहसा-सद्यो मञ्चात् पतन कुमारोऽपि नव पदानि ध्यायति, तद्ध्यानप्रभावात् तत्क्षणं-तत्कालमेव मकरस्यमहामत्स्यविशेषस्य पृष्ठौ पतितः ॥ ६३६ ॥ ततो नवपदमाहात्म्येन औषधिकाबलेन च मकरस्य पृष्ठौ स्थितः सन् कुमारः क्षणमात्रेणापि सुखेन कुकुणतटे प्राप्तः ॥ ६३७ ॥ तत्र च कुत्रापि वने चम्पकश्चासौ तरुवरश्च-प्रधानवृक्षस्तस्य तले स श्रीपालः सुप्तो-निद्रां प्राप्तः, ततो यावज्जागर्ति तावत्सेवापरैः सुभटैः परिवेष्टम्-आत्मानं परिवेष्टितं प्रेक्षते पश्यति ॥६३८ ॥ विनयेन अवनतैः-ननैरत एव प्राञ्जलिपुटैः-बद्धाञ्जलिभिस्तै टैर्विज्ञप्तम्, तथाहि- हे देव ! इह-अस्मिन् कुङ्कणाख्ये देशे स्थानाभिधाने-स्थानाख्ये पुरे-नगरे ॥ ६३९ ॥ वसुपालो नाम नृपो-राजाऽस्ति, तेन राज्ञा वयमिदं-वक्ष्यमाणं समादिष्टाः, इदं किमित्याह-जलधितटे-समुद्रतीरे अचलन्ती छाया यस्य सः अचलच्छायो यस्तरुः-वृक्षस्तस्य तले समासीनम्-उपविष्टम् ॥ ६४०॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy