________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
******************************
इक्विल्लओवि लोहो, बलिओ सो पुण सदष्पकंदप्पो । जलणुब्ब पवणसहिओ, संतावइ कस्स नो हिययं ? ॥६०७॥ तत्तो सो गयनिद्दो, सयणीअगओऽवि मज्झरयणीए । दुक्खेण टलवलंतो, दिट्ठो तम्मित्तपुरिसेहिं ॥६०८॥ पुट्ठो अ तेहिं को अज्ज तुज्झ अंगंमि बाहए वाही ?। जेण न लहेसि निद, तो कहसु फुडं निअं दुक्खं ॥६०९॥ कहकहवि सोवि दीहं, नीससिऊणं कहेइ मह अंगं । वाही न बाहए किंतु बाहए मं दुरंताही ॥६१०॥
एकाक्यपि लोभो बलिको-बलवान् अस्ति, च - पुनः दर्पकन्दर्पाभ्यां-अभिमानकामाभ्यां सह वर्तमानः कस्य पुरुषस्य हृदयं-चित्तं नो सन्तापयति ?, सर्वस्यापि हृदयं सन्तापयतीत्यर्थः, क इव ?-पवनेन-वायुना सहितः-संयुक्तो ज्वलनो-वह्निरिव, यथा वायुप्रेरितो वह्निः सर्वस्यापि मनः सन्तापयेत्तथेत्यर्थः ॥६०७॥ ततः-तदनन्तरं स धवलो गता निद्रा यस्य स गतनिद्रः सन् मध्यरजन्यां-अर्द्धरात्रेऽपि शयनीयगतः-शय्यां प्राप्तो दुःखेन टलवलन् तस्य - धवलस्य मित्रपुरुषैर्दृष्टः॥६०८॥ च - पुनः तैर्मित्रः पृष्टः अद्य तवाङ्गेको व्याधिः-रोगो बाधते ?-पीडामुत्पादयति, येन त्वं निद्रां न लभसे, ततः-तस्मात् त्वं स्फुटंप्रकटं निज-स्वकीयं दुःखं कथय ॥६०९॥ अथ स धवलोऽपि दीर्घ निःश्वस्य-दीर्घनिःश्वासं मुक्त्वा कथंकथमपि-महता कष्टेन कथयति, किं कथयतीत्याह- मम अङ्ग-शरीरं व्याधिर्न बाधते, किन्तु मां दुःखेन अन्तो यस्य स दुरन्त आधिः-मानसिकं दुःखं बाधते ॥६१०॥
For Private and Personal Use Only