________________
Shri Mahavir Jain Aradhana Kendra
*
*
सि
रि
सि
रि
वा
ल
क
hom
हा
*
*
*
दट्ठूण कुमरलीलं रमणीजुयलं च रिद्विवित्थारं । धवलो विचलिअचित्तो एवं चिंतेउमाढत्तो ॥ ६०३॥ * अहह अहो जणमित्तो, संपत्तो केरिसिं सिरिं एसो । अन्नं च रमणिजुयलं, एरिसयं जस्स सो धन्नो ॥ ६०४॥ ताजइ एयस्स सिरी, रमणीजुयलं च होइ मह कहवि । ताऽहं होमि कयत्थो, अकयत्थो अन्नहा जम्मो ॥ ६०५ ॥ एवं सो धणलुद्धो, रमणीझाणेण मयणसरविद्धो । दुज्झवसायाणुगओ, न लहेइ रई ससल्लुव्व ॥ ६०६॥
*
*
*
*
*
१३९ *
www.kobatirth.org
site
Acharya Shri Kailassagarsuri Gyanmandir *
तदा धवलः श्रेष्ठी कुमारस्य लीलां तथा रमणीयुगलं- स्त्रीद्वयं च - पुनः ऋद्धिविस्तारं दृष्ट्वा - विलोक्य विशेषेण चलितं चित्तं यस्य स विचलितचित्तः सन् एवं वक्ष्यमाणप्रकारेण चिन्तयितुमारब्ध- आरम्भं कृतवान्, चिन्तयितुं लग्न इत्यर्थः ॥ ६०३ ॥ अहहेति खेदे, अहो इत्याश्वर्ये, एष श्रीपालो जनमात्र एकाकिमनुष्यमात्रः सन् कीदृशीं श्रियं लक्ष्मीं सम्प्राप्तः प्राप्तवान्, अन्यच्च - अन्यत्पुनर्यस्य ईदृशं रमणीयुगलं- पत्नीद्वयमस्ति स एष धन्यः ॥ ६०४ ॥ तत् तस्मात् यदि एतस्य श्रीपालस्य श्री :लक्ष्मीः च पुनः रमणीयुगलं-स्त्रीद्वयं कथमपि केनापि प्रकारेण मम भवति, तत्-तर्हि अहं कृतार्थो - निष्पन्नप्रयोजनो भवामि, अन्यथा एतयोः प्राप्त्यभावे मम जन्म अकृतार्थं निष्क्रमित्यर्थः ॥ ६०५ ॥ एवम् अमुना प्रकारेण धनलुब्धः-परद्रव्यलोभयुक्तस्तथा * मदनशरैः - कामबाणैर्विद्धः ताडितोऽत एव दुरध्यवसायान्- दुष्टपरिणामान् अनुगतो- अभिव्याप्तः स धवलः सह शल्येन वर्तते इति सशल्य इव रतिं-सातं न लभते न प्राप्नोति ॥ ६०६ ॥
For Private and Personal Use Only