________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**
***
*
*
*
********************
*
तत्थ सिरिसिद्धचक्कं, विहिणा आराहिऊण भत्तीए । पाविस्सइ सग्गसुहं, कमेण अपवग्गसुक्खं च ॥५७८॥ तत्तो एस महप्पा, महप्पभावो महायसो धन्नो । कयपुन्नो महभागो, संजाओ नवपयपसाया ॥५७९॥ जो कोइ महापावो, एयस्सुवरिपि किंपि पडिकूलं । करिही सुच्चिअ लहिही, तक्कालं चेव तस्स फलं ॥५८०॥ एयरस सिद्धसिरिसिद्धचक्कनवपयपसायपत्तस्स । धुवमावयावि होही, गुरुसंपयकारणं चेव ॥ ५८१ ॥ एवं चेव कहंतो संपत्तो, मुणिवरो गयणमग्गे । लोओ अ सप्पमोओ, जाओ नरनाहपामुक्खो ॥ ५८२॥
तत्र-महाराजावस्थायां श्रीसिद्धचक्रं विधिना भक्त्या आराध्य स्वर्गसुखं प्राप्स्यति, क्रमेण अपवर्गसुखं-मुक्तिसुखं च प्राप्यति ॥ ५७८ ॥ ततः-तस्मात्कारणात् एष महात्मा, पुनः महान् प्रभावो यस्य स महाप्रभावः, तथा महद् यशो यस्य स महायशाः, धन्यः, पुनः कृतं पुण्यं येन स कृतपुण्यस्तथा महान् भागो-भाग्यं यस्य स महाभागो नवपदानां प्रसादात्सज्जातः ॥५७९॥ यः कोऽपि महापापः पुमान् एतस्योपरि अपि किमपि प्रतिकूलं-विरुद्धं करिष्यति तस्य फलं स एव पुमान् तत्कालमेव लप्स्यते-प्राप्स्यति ॥ ५८०॥ सिद्ध-निष्पन्नं यत् श्रीसिद्धचक्रं तत्र यानि नव पदानि तेषां प्रसादपात्रस्य एतस्य श्रीपालस्य धुवंनिश्चितम् आपदपि-विपदपि गुरुसम्पत्कारणमेव भविष्यति ॥ ५८१ ॥ एवं कथयन्नेव मुनिवरो गगनमार्गे-आकाशमार्गे सम्प्राप्तः, नरनाथप्रमुखो-राजादिको लोकश्च सह प्रमोदेन-हर्षेण वर्तते इति सप्रमोदो-हर्षवान् जातः॥ ५८२ ॥
**
****
**
**
******
**
For Private and Personal Use Only