________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
31
क
ho
हा
४
*
*
www.kobatirth.org
**
Acharya Shri Kailassagarsuri Gyanmandir
पंचविहं अभिगमणं, काउं तिपयाहिणाउ दाऊणं । पणमिय गोयमचलणे, उवविट्ठो उचियभूमिए ॥१४॥ भयकंपि सजलजलहर-गंभीरसरेण कहिउमादत्तो । धम्मसरूवं सम्मं परोवयारिक्कतल्लिच्छो ॥१५॥ भो भो महाणुभावा !, दुलहं लहिऊण माणुसं जंमं । खित्तकुलाइपहाणं, गुरुसामग्गिं च पुण्णवसा ॥ १६॥ पंचविहंपि पमायं,गुरुयावायं विवज्जिउं झत्ति । सद्धम्मकम्मविसए, सम्मुज्जमो होइ कायव्वो ॥१७॥ युग्मम् । सो धम्मो चउभेओ, उवइट्ठो सयलजिणवरिंदेहिं । दाणं सीलं च तवो, भावोऽवि अ तस्सिमे भेया ॥ १८॥
11
ततः पञ्चविधं अभिगमनं - सचित्तद्रव्यव्युत्सर्जनादिकं कृत्वा पुनस्तिस्रः प्रदक्षिणाः दत्त्वा गौतमस्वामिचरणौ प्रणम्य उचितायां स्वस्वयोग्यायां भूमौ उपविष्टः ॥ १४ ॥ भगवान् गौतमोऽपि सजलो यो जलधरो- मेघः तद्वद् गम्भीरस्वरेण सम्यग्धर्मस्वरूपं कथयितुम् आढत्तोत्ति-आरब्धः- प्रारम्भं कृतवान् कीदृशो भगवान् ? -परोपकारे एका सा एव लिप्सा यस्य स तथा, परोपकारैकतत्पर इत्यर्थः ॥१५॥ अहो महानुभावाः ! पुण्यवशात् दुर्लभं मानुष्यं जन्म लब्ध्वा पुनः प्रधानं क्षेत्रकुलादिआर्यक्षेत्रार्यकुलादिकं लब्ध्वा च पुनः गुरुसामग्री-सद्गुरुसंयोगं लब्ध्वा प्राप्य ॥ १६ ॥ मज्जं विसयकसायेत्यादिकं पञ्चविधंपञ्चभेदं, पुनः गुरुकोऽपायः कष्टं यस्मात् स तं महाकष्टकारणमित्यर्थः एवंविधं प्रमादं झटिति शीघ्रं विवर्ज्य-वर्जयित्वा सद्धर्मकर्म्मविषये सम्यग्धर्मकार्यविषये इत्यर्थः, सं- सम्यक्प्रकारेण उद्यमः कर्तव्यो भवति, कर्तुं योग्योऽस्तीत्यर्थः ॥१७॥ स * धर्मश्चतुर्भेदः चतुष्पकारः, सकलजिनवरेन्द्रैः उपदिष्टः कथितः, तानेव भेदानाह- दानं १ शीलं २ तपः ३भावः ४, अपि चेति समुच्चये, तस्य धर्मस्य इमे चत्वारो भेदाः ॥ १८॥
*
For Private and Personal Use Only
*