________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****-*-*-*-*-*-*-*
***************************
*
सो सेणियनरनाहो, अभयकुमारेण विहियउच्छाहो । तिहुयणपयडपयावो, पालइ रज्जं च धम्मं च ॥९॥ एयंमि पुणो समए, सुरमहिओ वद्धमाणतित्थयरो। विहरंतो संपत्तो, रायगिहासन्ननयरंमि ॥१०॥ पेसेइ पढमसीसं, जिटुं गणहारिणं गुणगरिटुं । सिरिगोयमं मुणिंदं, रायगिहलोयलाभत्थं ॥११॥ सो लद्धजिणाएसो, संपत्तो रायगिहपुरोज्जाणे। कइवयमुणिपरियरिओ, गोयमसामी समोसरिओ ॥१२॥ तस्सागमणं सोउं, सयलो नरनाहपमुहपुरलोओ। नियनियरिद्धिसमेओ, समागओ झत्ति उज्जाणे ॥१३॥
स श्रेणिकनरनाथः अभयकुमारेण विहितः-कृत उत्साहो यस्य सः,पुनः ? -त्रिभुवने प्रकटः प्रतापो यस्य स एवंविधः सन् राज्यं च धर्मं च पालयति ॥९॥ एतस्मिन् समये-अवसरे पुनः सुरैः-देवैः महितः - पूजितः श्री वर्द्धमानतीर्थङ्करः विचरन् राजगृहनगरस्य आसन्ने-समीपस्थे कस्मिंश्चिन्नगरे सम्प्राप्तः॥१०॥ ततो भगवान् स्वकीयं प्रथमशिष्यं ज्येष्ठं-वृद्धं, गणधारिणंगणधरं, पुनः ? गुणैर्गरिष्ठम्, ईदृशं श्रीगौतमं मुनीन्द्रं राजगृहनगरलोकस्य लाभार्थं प्रेषयति ॥११॥ स गौतमस्वामी लब्धःप्राप्तः जिनादेशो-जिनाज्ञा येन सः, एवंविधः सन् राजगृहपुरोद्याने सम्प्राप्तः, कतिपयैः-कियद्भिर्मुनिभिः परिकरितः-परिवृतः तत्र समवसृतः ॥१२॥ तस्य-गौतस्वामिन आगमनं श्रुत्वा सकलः-समस्तः नरनाथप्रमुखो-राजादिर्लोकः निजनिजऋद्ध्या समेतः-संयुक्तः झटिति-शीघ्रं उद्याने समागतः ॥१३॥ ॐ महा ऋतृति हस्वो वा (१-२-२ सि. हे.) मे सूत्रथ. संकि थ६ नथी..
*
**
*
*******
*
For Private and Personal Use Only