________________
Shri Mahavir Jain Aradhana Kendra
**
सि
क वह क
* तत्तो सा निवधूया, अप्पं निंदेइ गरुअसंतावा । हाहा अहं हयासा, किंकयपावा असुहभावा ? ॥ ५०५॥ रि जे मए पावाए, पमायलग्गाइ मंदभग्गाए । संकरकयाइ पूयाइ दंसणं खणमवि न लद्धं ॥५०६॥ * ही ही अहं अहन्ना, अन्नाणवसेण कम्मदोसेणं । आसायणंपि काहं, किंपि धुवं वंचिया तेण ॥ ५०७ ॥ * एवं ममावराहं, खमसु तुमं नाह ! कुणसु सुपसायं । मह पुन्नविहीणाए, दीणाए दंसणं देसु ॥ ५०८ ॥ एवं तं रुयमाणिं, दट्ठूणं नंदिणिं भणइ राया । वत्थे ! तुहावराहो, नत्थि इमो किंतु मह दोसो ॥५०९॥
*
रि
वा
ल
क
हा
११७
*
www.kobatirth.org
*
*
Acharya Shri Kailassagarsuri Gyanmandir
ततः-तदन्तरं सा नृपपुत्री गुरुको - बहुः सन्तापो यस्याः सा एवंविधा सती आत्मानं निन्दति, कथमित्याह- हा हा इति खेदेऽहं हताशा जाता हता आशा-इच्छा यस्याः सा कीदृशी अहं ?- अशुभभावात् किमपि कृतं पापं यया सा किंकृतपापा ॥ ५०५॥ येन कारणेन मया पापया प्रमादे लग्नया पुनर्मन्दभाग्यया सत्या सङ्करेण- शुभाशुभरूपमिश्रभावेन कृतया पूजया दर्शनंप्रभोर्निरीक्षणं क्षणमपि न लब्धं न प्राप्तम् ॥५०६ ॥ ही हीति खेदेऽहमधन्याऽस्मि अज्ञानवशेन कर्मदोषेण कामपि आशातनांविराधनामपि अकार्ष कृतवती अस्मि तेन कारणेन धुवं निश्चितं वञ्चिताऽस्मि ॥ ५०७ ॥ हे नाथ ! एवं ममापराधं क्षमस्व, त्वं सुष्ठु-शोभनं प्रसादम् - अनुग्रहं कुरुष्व, पुण्यविहीनायै दीनायै मह्यं दर्शनं दत्स्व ॥ ५०८ ॥ एवं अमुना प्रकारेण रुदन्तीं रोदनं कुर्वाणां तां पुत्रीं दृष्ट्वा राजा भणति हे वत्से ! अयं तवापराधो नास्ति, किन्तु मम दोषोऽस्ति ॥५०९ ॥
For Private and Personal Use Only