________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*************************
एगे मवंति धुवमंडलं च एगे हरंति थागत्तं । एगे मवंति वेलं, एगे मग्गं पलोयंति ॥४२५॥ कत्थवि दळु मगरं, एगे वायंति ढुक्कलुक्काई । एगे य अग्गितिल्लं, खिवंति लहुढिंकलीआहिं ॥४२६॥ चोराण वाहणाई, दळु निययाई पक्खरिजंति । पंजरिएहिं भडेहिं, चोरा दूरे गमिज्जंति ॥४२७॥ उग्गमणं अत्थमणं, रविणो दीसेइ जलहिम_मि। वडवानलपज्जलिया, दिसाउ दिसंति रयणीसु ॥४२८॥
पुनस्तदा एके केचन पोतवाहका ध्रुवमण्डलं - ध्रुवतारकमण्डलं मिमते-मानविषयं कुर्वन्ति, च - पुनः एके केचन थागत्तं हरन्ति-अन्तःप्रविष्टं जलं निष्कासयन्ति, तथा एके काष्ठप्रयोगेण जलधेर्वेलां मिमतेऽन्ये पुनरेके मार्ग प्रलोकन्ते- निरीक्षन्ते ॥४२५॥ कुत्रापि मकरं-महामत्स्यविशेषं दृष्ट्वा एके - केचन लोका ढुक्कलुक्कानि - दुक्कलुक्काख्यान् चर्मावनद्ववाद्यविशेषान् वादयन्ति, च-पुनः एके लोका लघुभिर्दिङ्कलिकाभिः-पात्रविशेषैः अग्नौ तैलं क्षिपन्ति, एतावता वाद्यशब्दं श्रुत्वाऽग्निज्वालां च विलोक्य मकरा दूरतःप्रयान्तीति भावः॥४२६॥ क्वचित्प्रदेशे चौराणां वहनानि-पोतान् दृष्ट्वा निजकानि-स्वकीयानि वहनानि पञ्जरीकैः-तदधिकारिविशेषैः पक्खरिज्जन्तीति-सन्नद्धानि कार्यन्ते, ततो भटैः-वीरपुरुषैः चौरा दूरे गम्यन्ते - गमनं कार्यन्ते ॥४१७॥ पुनस्तदा रवेः:-सूर्यस्य उद्गमनमुदयः अस्तंगमनमस्तमयनं वे अप्येते जलधिमध्ये समुद्रान्तः एव दृश्येते, तथा रजनीषुरात्रिषु वडवानलेन-समुद्रोत्थवह्निविशेषेण ज्वलिता दिशो दृश्यन्ते ॥४२८॥
For Private and Personal Use Only