SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपक्रमः सर्वेषां शेमुषीमतां विदितचरमेतद् यदुत सर्वाऽपि भाषा विना व्यवस्थां व्यवहर्तृणामकौशलं व्यकीकुर्यात् , विशेषतश्च संस्कृता या केवलमधुना शास्त्रनिचयमेव निश्रिता, न तु लोकव्यवहारं सा लेशतोऽपि शोभितवती, अतस्तस्यास्तु विना व्यवस्थां कौतस्कुती सम्यग्व्यवस्थितिः, व्यवस्थापकं च तस्या व्याकरणमेवेति शास्त्राण्यधिजिगमिष्णामादित एव तस्योपयोगः, परमर्षयस्तु स्पष्टमूचुर्वाङ्मयविस्तरे यदुताध्येतैव व्याकरणस्य मृषावादविरमणमलं रक्षितुं, तथा च स्पष्टमेवैतत् यदुत विना व्याकरणाध्ययनं न सद्गतिलिप्सापूर्तिः न च दुर्गतिपात रक्षा, अत एव च कलिकालसर्वज्ञोपपदैः श्रीहेमचन्द्रसूरिभिमुनित्रयेणापूरितमपि पूरितं स्वयं व्याकरणं, किंच निम्नलिखिता नूतनतात्र विदुषामवश्यमवलोकनीयाः १ अष्टाध्यायीक्रमोऽत्र प्रायः प्रक्रियाक्रमानतिवृत्तिः २ धातुपाठे पदक्रमेण अकाराद्यन्तक्रमेण च पाठः ३ उणादिषु परःसहस्रेष्वपि अकाराद्यन्तक्रमेणैव पाठः (विना क्रममपि धातूणादिसूत्रान्वेषणमत्रैव ) एवं विविधाश्चर्य: कृद्विधानमप्येतत् व्याकरणं स्वल्पप्रज्ञानामध्येतुं धारयितुं च दुष्करमिति संक्षेपार्थमेषोऽत्रोद्यमोऽस्माकं, विदिततचा विद्वांसः अत्रत्य स्खलनासद्भावं क्षंस्यंते यतः स्वभाव एवैष एतेपामिति शं।। २४६० आश्विनशुक्ला द्वितीया महेशाने । निवेदकः श्रमणसंघसेवकः आनन्दसागर: For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy