________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलशस्य दुरितक्षयकारकाः || गायत्र्यादिभ्योनमः इत्यनेन पश्चोपचारैरभ्यर्च्य कलशं प्रार्थयेत् - देवदानव० प्रसन्नो भव सर्वदा || | नमोनमस्ते || पाशपाणे ० तावत्त्वं सन्निधो भव । ततो यजमानः युग्मविमान् गन्धमाल्यवस्त्रदक्षिणादिभिः संपूज्य तान् उदखानुपवेश्य पूजितकलशं कराभ्यामालभ्य-मम गृहे पुण्याहं भवन्तो ब्रुवन्तु ॥ विप्राः - पुण्याहम् ॥ एवं त्रिः ॥ मैम गृहे स्वस्ति भवन्तो ब्रुवन्तु ।। विप्राः- ॐ स्वस्ति । एवं त्रिः ॥ मम गृहे ॐ ऋद्धिं भवन्तो ब्रुवन्तु ।। विप्राः ऋद्ध्यताम् ॥ एवं त्रिः । इति पुण्याहं वाचयित्वा मन्त्राशिषो गृहीत्वा प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः । यस्य स्मृत्या च नामोतया तपोयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ॐ विष्णवे नमः । विष्णवे नमः ।। विष्णवे नमः ॥ ततो ब्राह्मणान् भोजयित्वा दीनानाथांश्चान्नादिना सन्तोष्य स्वयं सुहृन्मित्रादियुतः सोत्साहः सन्तुष्टो हविष्यं भुञ्जीत इति वैदिक ग्रहशान्तिप्रयोगः ||
१ संक्षिप्तपुण्याहवाचने तु कल्याणं श्रीवेति द्वयोर्वाचनं नोक्तं तदाह रूपनारायणीये मदनरत्ने व बौधायनः-पुण्याई स्वस्तिऋद्धिरित्योंकारपूर्वकं त्रिखिरेकैकामाशिषो वाचयेत् ॥ एकैकमिति पुण्याहादिभिः संबद्धयते । एकैकमित्यस्यानन्तरमाशिष्यमितिशेषः । तथा च पुण्याहादिरूपामे के कामाशिषं त्रित्रिर्वाचयेदित्येवमाशिषो वाचयेदिति वाक्यार्थः ॥ २ यजमानेनान्वारब्ध आचार्यों यदि पुण्याई वाचयेत्तदा ममास्य यजमानस्य गृहे इति वाच्यम् ॥ ३ ॐकारपूर्वकं तु ब्राह्मणजातीय यजमानमात्रविषयं तत्राह यमः -- पुण्याहवाचनं देवे ब्राह्मणस्य त्रिधीयते । एतदेव निरोंकारं कुर्यात्क्षत्रियवैश्ययोः ॥ सोंकारं ब्राह्मण कुर्यान्निरोंकारं महीपतौ । उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तयेत् ॥
For Private and Personal Use Only