________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२] श्रीप्रीधरचरितमहाकाव्यम् । [नवमः
नाशक पृष्ठतो गन्तुं, सविद्योऽपि नृपः पुनः। तस्य तच्चिन्तनेनैव, विभाति स्म विभावरी ।। ९१ ॥ मन्त्रिणश्चिन्तयाऽतीतरात्रयस्तत्र सङ्गताः । जयवन्तं नृपं वीक्ष्य, महोत्सवमकारयन् ॥ ९२ ।। पौरपुण्यप्रभावेणान्तरायस्ते व्यलीयत ।। प्रभासय सभामद्य, प्रद्योतन इव प्रभो। ।। ९३ ॥ मन्त्रिणामिति विज्ञप्त्या, महोत्सवपुरस्सरम् । विभुर्विभूषयामास, समामिव नभः शशी ॥ ९४ ॥ मौलिमौलिस्थमालाभिरानम्रा तत्पदद्वयम् । पूजयामास सामन्तमण्डलेश्वरमण्डली ।। ९५ ॥ पौरा दूरादपि प्रीति, दधिरे तनिरीक्षणात् । व्योमस्थोऽपि नवाम्भोदो, नानन्दयति केकिनः! ॥ ९६ ॥ राजादिमानसहानप्रेक्षणादिक्षणेक्षणैः । क्षणदाकान्तवत् क्षोणीविभुर्विश्वमुदेऽभवत् ॥ ९७ ॥ हृदि स्मरनिशावृत्तमेवातिक्रम्य वासरम् । नृपस्तत्रैव शिश्ये तत्कन्यालोकनकौतुकी ॥ ९८ ॥ कन्याऽपि पुर्ववत् तत्रागत्य नृत्यं विधाय सा । ग्रहीतुमुत्थितं भूपं, वीक्ष्य व्योम्ना ययौ क्षणात् ॥ ९९ ।। च्यतफाल इव द्वीपी, तदनासादसादरः। तृतीयनिश्यपि मापस्तत्रागत्य व्यचिन्तयत् ॥ १०० ॥ दु० व्या०-अनासादः-अप्राप्तिः ॥ १०॥ विज्ञाता लक्षणैस्तावन्मया कन्यैव साऽङ्गना । नाङ्गभावादपि प्रायो, यो न वेत्ति स ना पशुः ॥ १०१ ॥
For Private And Personal Use Only