________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८६ ) उद्यदिवाकरमयूखशिखापविद्धं, त्वत्कीर्तनात्तम इवाशु मिदामुपैति ॥ ३८॥ कुंताग्रभिन्नगजशोणितवारिवाह, वेगावतारतरणातुरयोधमीमे ॥ युद्धे जयं विजितदुर्जयजेयपक्षा, स्त्वत्पादपंकजवनायिणो लभते ॥ ३९ ॥ अंभोनिधौ क्षुभितभीषणनकचक्र, पाठीनपीठभयदोल्वणवाडवामौ ॥ रंगत्तरंगशिखरस्थितयानपात्रास्वासं विहाय भवतः सरणाद्रजंति ॥ ४०॥ उद्भूतभीषणजलोद. रभारभुमाः, शोच्यां दशामुपगताच्युतजीविताशाः ॥ त्वत्पादपकजरजोमृतदिग्धदेहा, मां भवंति मकरध्वजतुल्यरूपाः ॥४१॥ आपादकंठमूरुशृंखलवेष्टितांगा, गाढं बृहनिगडकोटिनिघृष्टजंघाः ॥ त्वन्नाममंत्रमनिशं मनुजाः सरंतः, सद्यः स्वयं विगतबंधभया भवंति ॥ ४२ ॥ मत्तद्विद्रमृगराजदवानलाहि, संग्रामवारिधिमहोदरबंधनोत्थम् । तसाशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रस्रजं तब जिनेंद्र गुणैर्निबद्धां, भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् ॥ धत्ते जनो य इह कंठगतामजस्रं, तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४४॥ इति भक्तामरस्तोत्रं संपूर्णम् ॥
॥भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतत् , ये यात्रायां त्रिभुवनगुरोराहतां भक्तिभाजः ॥ तेषां शांतिर्भवतु भवतामझ्दादिप्रभावा, दारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥१॥ भो भो भव्यलोका इह हि भरतैरावतविदेहसंभवानां, समस्ततीर्थकृतां जन्मन्यासनप्रकंपानन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोपाघंटाचालनानन्तरं सकलसुरासुरेंद्रैः सह समागत्य सविनयमह
For Private And Personal Use Only