________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९१ ) ॥ ॐ ही श्री अहँ अर्हद्भ्यो नमोनमः, ॐ ही श्री अहं सिद्धेभ्यो नमोनमः ॥ ॐ ह्री श्री अहं आचार्येभ्यो नमोनमः ॥ ॐ ह्री श्री अर्ह उपाध्यायेभ्यो नमोनमः ॐ ही श्री अर्ह श्रीगौतमस्वामिप्रमुखसर्वसाधुभ्यो नमोनमः ॥१॥ एष पंच नमस्कारः, सर्वपापक्षयंकरः ॥ मंगलानां च सर्वेषां, प्रथमं भवति मंगलं ॥२॥ ॐ ह्री श्री जयेविजये, अहं परमात्मने नमः ॥ कमलप्रभसूरींद्रो, भाषते जिनपंजरम् ॥३॥ एकभक्तोपवासेन, त्रिकालं यः पठेदिदं ॥ मनोभिलषितं सर्व, फलं स लभते ध्रुवं ॥ ४॥ भूशय्या ब्रह्मचर्येण, क्रोधलोभविवर्जितः ॥ देवताग्रे पवित्रात्मा, षण्मासैर्लभते फलं ॥५॥ अर्हतं स्थापयेन्मूर्ध्नि, सिद्धं चक्षुर्ललाटके ॥ आचार्य श्रोत्रयोर्मध्ये, उपाध्यायं तु घ्राणके ॥६॥ साधुवृन्दं मुखस्याग्रे, मनः शुद्धं विधाय च ॥ सूर्यचंद्रनिरोधेन, सुधीः सर्वार्थसिद्धये ॥७॥ दक्षिणे मदनद्वेषी, वामपार्श्वे स्थितो जिनः।। अंगसंधिषु सर्वज्ञः, परमेष्ठी शिवंकरः ॥ ८॥ पूर्वाशां श्रीजिनो रक्षे, दाग्नेयीं विजितेंद्रियः ॥ दक्षिणाशां परं ब्रह्म, नैर्ऋतिं च त्रिकालवित् ॥ ९॥ पश्चिमाशां जगन्नाथो, वायवीं परमेश्वरः॥ उत्तरां तीर्थकृत् सर्वा, नींशानी च निरंजनः ॥१०॥ पातालं भगवानह, नाकाशं पुरुषोत्तमः ॥ रोहिणीप्रमुखा देव्यो रक्षंतु सकलं कुलं ॥ ११ ॥ ऋषभो मस्तकं रक्षे, दजितोपि विलोचने ॥ संभवः कर्णयुगलं, नासिकां चाभिनंदनः ॥ १२॥ ओष्ठौ श्रीसुमती रक्षेत्, दंतान्पद्मप्रभो विभुः ॥ जिह्वां सुपार्श्वदेवोयं, तालु चंद्रप्रभो विभुः ॥ १३ ॥ कंठं श्रीसुविधी रक्षेत्, हृदयं श्रीसुशीतलः ॥
For Private And Personal Use Only