________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥६६॥
www.kobatirth.org
एवं चैत्यावस्थायित्वं व्युदस्य तत्रैव व्याख्यानविधिमाह
निस्सकडे वा ठाइ, गुरू कइवयसहिओ इयरा व वसहिं । अह तत्थ अनिस्सकडं, पूरिति तहिं समोसरणं ॥ १५१||
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'निस्संक०' चैत्यानि तावच्छाश्वतादीनि चतुर्धा । तत्र शाश्वतचैत्यं नन्दीश्वरादिषु १ । भक्तिचैत्यमनिश्राकृतनिश्राकृतभेदात् द्विधा । तत्रानिश्राकृतं यत् साधुसत्तारहितं यथा अष्टापदादिषु । निश्राकृतं यत्साधुनिश्रया | क्रियते २ | मङ्गलचैत्यमुत्तरङ्गादिषु यथा मथुरायाम् ३ । साधर्मिकचैत्यं वारत्रिकप्रतिमादि ४ । तत्र निश्राकृते चैत्ये गुरुर्व्याख्यानार्थं कतिपयपरिणतसाधुसहितस्तिष्ठति । इतरे शिक्षकादयो व्रजन्ति वसतिम् । अथ च तत्रानिश्राकृतं चैत्यमस्ति तदा 'पूरिंति तहिं समोसरणं' ति तत्र चैत्ये सपरिवारा आसत इति ॥१५१||
किमेवं न निश्राकृतेऽपीत्याह
उसन्नावि तत्थेव, इंती चेइयवंदया ।
तेसिं निस्साइ तं भवणं, सड्ढाईहिं कयं परं ॥१५२॥
व्याख्या- 'उसन्नावि०' अवमग्ना अपि चैत्यवन्दनकास्तत्रायान्त्येव । यतस्तज्जिनभवनं श्राद्धादिभिः परं तेषां निश्रया कृतमिति ॥ १५२॥ ततः किमित्याह
For Private and Personal Use Only
सूत्रम्
॥६६॥