________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ॥६४॥
सूत्रम्
एवं नाऊण जे दळ, वुड्डिं निति सुसावया ।
जरामरणरोगाणं, अंतं काहिंति ते पुणो ||१४५।। व्याख्या-'एवं नाऊण०' सुगमा । नवरं द्रव्यमिति प्रस्तावाद् देवद्रव्यम् ।।१४५।। श्रवणद्वार एव विधिविशेषमाह
अह धम्मदेसणत्यं, तत्थ सूरी न आगओ ।
पुवुत्तेण विहाणेणं, वसहीए गच्छए तओ ||१४६।। व्याख्या-'अह धम्मदेसण०' केनचित्कारणेन तत्र- चैत्ये धर्मदेशनार्थं सूरिन गतः । ततोऽसौ ऋद्धिमान् श्रावकः पूर्वोक्तविधानेन- हयगजप्रकारेण इतरस्तु सामायिकप्रतिपत्तिविधिना वसतौ- साधूपाश्रय गच्छतीति ।।१४६।। चैत्य एव साधवः किं न तिष्ठन्तीत्याद्याशङ्का व्यवहारगाथाभिर्निरस्यन्नाह
जइवि न आहाकम्म, भत्तिकयं तहवि वज्जयंतेहिं ।
भत्ती खलु होइ कया, जिणाण लोए वि दिÉतो ।।१४७।। व्याख्या-'जइवि न आ०' यद्यपि भक्तिकृतमायतनादि भगवतां नाधाकर्म । तथापि तद्वर्जयद्भिः खलुनिश्चयेन भक्तिर्जिनानां कृता भवति । इदं तु लोकेऽपि दृष्टं ||१४७|| तदेव दर्शयति
६४॥
For Private and Personal Use Only