________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H31
श्राद्धदिन० ॥५२॥
व्याख्या-'इय जिन्नु०' इति- पूर्वोक्तप्रकारेण जीर्णोद्धारो जिनवरैः- श्रुतादिजिनप्रधानैस्तीर्थकरैरित्यर्थः । । सूत्रम् सर्वैः- समस्तैर्वर्णितो- व्याख्यातो गुरुको बृहत्तरः, द्रव्यस्तवमध्येऽयमेव ज्यायानित्यर्थः । कथमित्याह इह-प्रवचने मोक्षस्याङ्गान्यवन्ध्यकारणानि 'नाणत्ति' एकग्रहणे तज्जातीयग्रहणात् सम्यग्ज्ञानदर्शनचारित्राणि, तल्लाभस्येह भवे कारणं- निमित्तं परमम्, श्रीमन्मल्लिजिनायतनोद्धारकर्तृपुरिमतालपुरीयवागुरुश्रेष्ठ्यादीनामिव । तथाविधसंहननाद्यभावात्तद्भव एव सिद्धिमप्राप्नुवत्सु प्रेत्य सुरसम्पदां च कारणमेवासौ । यथा-आयान्त्यायतने यतो यतिजनाः, कुर्वन्ति सद्देशनां, श्रुत्वा ताममलाशयः श्रयति सद्ज्ञानं तथा दर्शनम्, चारित्रं खलु देशतः स लभते द्राक् सर्वतोऽपि वा तत्, जीर्णोद्धारकरः क्रमात् सुरशिवश्रीभाजनं जायते इति ||११०।। जीर्णोद्धारचिन्तानन्तरं पुनः कृत्यान्तरमाह
पुणोवि चिंतए तत्थ, समुग्गाईण किच्चयं ।
अन्नं च दुत्थियं जं तु, तं सव्वं सुत्थियं करे ||१११।। व्याख्या-'पुणो वि०' पुनरपि चिन्तयति ('समुग्गाइण'त्ति) सुरक्षणीयत्वेन रत्नसमुद्गकवत् समुगको देवगृहभाण्डागारः, आदिशब्दादायव्ययस्थानानि, तेषां कृत्य- सम्यग् रक्षणादि, अन्यद्वा देवार्चकप्राहरिकादिकं दुःस्थितंस्वस्वव्यापारातत्परं अल्पाजीविकादुःखितं वा तत्सर्वं सुस्थितं कुर्यादिति ॥१११।।
booooooooooooooooooooooooooooooooooooooooooooooooo
॥५२॥
For Private and Personal Use Only