________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥५०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'इहलोगं०' इह लोके - तस्मिन्नपि भवे सुकीर्ति :- सुश्लाघा, स्यात्तेषामिति शेषः । सुपुरुषमार्गश्च - सगरचक्रिपुत्रादिकृताष्टापदप्रभृतिमहातीर्थोद्धाररूपो देशितः- करणद्वारेण प्रकटितः । केषामित्याह- अन्येषां भव्यानां । किं कुर्वद्भिस्तैर्जिनभवनमुद्धरद्भिः ॥ १०३ ॥
सिज्झति केइ तेण वि, भवेण इंदत्तणं च पावंति । इंदसमा केइ पुणो, सुरसुक्खं अणुभवेऊणं ||१०४ ॥ यत् संपत्ता, इक्खागकुलेसु तहय हरिवंसे । सेणावई अमच्चा, इब्भसुया चेव जायंति ||१०५||
व्याख्या- 'सिज्झंति०' 'मणुय० ' सिद्ध्यन्ति केचिदशेषकर्मक्षीणांशास्तेनैव भवेन निर्वृतिं गच्छन्ति । अन्ये तु सावशेषकर्माण इन्द्रत्वं च प्राप्नुवन्ति । इन्द्रसमाः शक्रसामानिकाः स्युः केचित्, पुनः शब्दाच्छेषा अपि महर्द्धिकाश्च । तत्र च सुरसौख्यमनुभूय मनुजत्वे सम्प्राप्ता इक्ष्वाकुकुले तथा च हरिवंशे सेनापतयो हस्त्यश्वरथपत्तिरूपचतुरङ्गचमूनाथाः, महानरेश्वरा इत्यर्थः । अमात्या महामन्त्रिणः । इभ्यसुताश्चैव सार्थवाहपुत्राश्च जायन्ते ।। १०४ - १०५ ॥ कलाकलावे कुसला कुलीणा, सयाणुकूला सरला सुसीला । सदेवमच्चासुरसुंदरीणं, आणंदयारी मणलोयणाणं ||१०६||
For Private and Personal Use Only
सूत्रम्
||५०||