________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥४७॥
www.kobatirth.org
गेहान्निसृत्य प्राच्यां विद्याबलात् सम्यग् ब्रह्मणो रूपं विधाय ब्रह्मदेवमानिनां पौराणां धर्मं दिदेश । द्वितीयेऽह्नि दक्षिणस्यां विष्णुरूपं विधाय तद्भक्तानाम् । तृतीयेऽह्नि उत्तरस्यां हररूपं निर्माय तद्भक्तानाम् । उदीच्यां तु चतुर्थेऽह्नि तीर्थनाथरूपं विधाय समवसृत्यन्तश्चतुर्विधं धर्ममाचख्यौ । तत्रापि सुलसा नागता । तस्या आकारणार्थं तेन जने प्रेषितेऽप्यनागमने निश्चलसम्यक्त्वां तां वीक्ष्य परीक्ष्य च सर्वं प्रपञ्चं संहत्याम्बडः सुलसागेहे गतः । तत्र च गृहचैत्यानि नित्यानित्यचैत्यानि च परस्परं वन्दितानि । तदा भगवतो धर्मप्रवृत्तिप्रश्नं तस्य मुखात् श्रुत्वा सा वीरं वन्दे | अम्बडेनोक्तम्-ब्रह्मादयः स्वयमवतीर्य पौराणां धर्मं प्रोचुः तस्मिन्नवसरे त्वं कस्मान्नागता ? तयोक्तम्- `वीतरागं गतद्वेषं सर्वज्ञं वीक्ष्य परान् द्रष्टुमुत्सहेत कः' । एवं सुलसास्थैर्यं दृष्ट्वा शुभमनाः श्री अम्बडः सम्यग् धर्मोन्नतिं कुर्वन् च्युतः स्वर्गे प्राप्तः । क्रमेण पञ्चदशो जिनेश्वरो भविष्यति । अभयस्य तु कथा श्रेणिकचरित्रादवसेया । संक्षेपेणात्र कथ्यतेऽभयश्च क्श्चरमो राजर्षिरिति पृष्टे वीरेण तत्कालदीक्षितोऽयमुदायननृपश्चरमराजर्षिरित्युक्ते मनसि निश्चित्य राज्यास्वीकारेण प्रव्रजितः ॥९६॥
श्रवणद्वार एव चैत्योद्वारचिन्तादिकृत्यं द्विसूत्र्याह
निस्सामित्ताय सिद्धतं, तओ किच्चं निरूवए ।
Acharya Shri Kailassagarsuri Gyanmandir
एयं च इत्थ कायव्वं, एयं उद्धरियव्वयं ॥ ९७ ।।
व्याख्या- 'निस्सामि०' निशम्य च सिद्धान्तं ततः कृत्यं प्रस्तावाच्चैत्यसम्बन्धिकार्यं चिन्तयति । तदेवाह
For Private and Personal Use Only
सूत्रम्
॥४७॥