________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥४०॥
पूजना । तीर्थकराणां चाज्ञा । श्रुतधर्माराधना | अक्रियेति सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति ||८३|| द्वारमए ।। साम्प्रतं दशमद्वादशत्रयोदशलक्षणद्वारत्रयाभिधित्सयाह
पच्चक्खाणं तु काऊण, (द्वा०१०) पुच्छए (द्वा० १२) सेसकिच्चयं ।
कायव्वं च मणे काउं तओ, अण्णं करे इमं ।।८४|| व्याख्या-पच्चक्खाणं०' प्रत्याख्यानमिह नमस्कारसहितादि स्वयं गृहादौ गृहीतमपि गुरुसाक्षिकं विधेयमतस्तच्च कृत्वेति द्वारम् (१०) । अत्रैकादशं श्रवणद्वारमुल्लङ्घयाल्पवक्तव्यत्वाद् यतिपृच्छा- उचितकरणीयद्वारद्वयमाह'पुच्छए०' पृच्छति साधुधर्मशरीरनिराबाधवार्ताद्यशेषकृत्यम् , तच्च महानिर्जराहेतुः । यदुक्तम्-अभिगमण-वंदणनमसणेण पडिपुच्छणेण साहूणं । चिरसंचियपि कम्मं खणेण विरलत्तणमुवेइ ||१|| १२ द्वारं । 'कायब्वं०' कर्तव्यं च स्वशक्त्यनुरूपं साधोग्र्लानत्वादावौषधादिप्रदानलक्षणं मनसि कृत्वा- गृहाद्यागतानां साधूनामिदमौषधादि दास्येऽहमिति मनस्याधाय ततोऽन्यत्कर्यादिदं- वक्ष्यमाणमिति ।।८४।। यदुक्तमन्यद् कुर्यादिदं तदेवाह
साहुसाहूणिमाईणं, काऊणं च जहोचियं ।
समणोवासगमाईणं, वंदं वंदं ति जंपई ॥८५|| दारं १२-१३।। व्याख्या-साधुसाव्यादीनामादिशब्दादवमग्नानां च, निश्राकृतचैत्ये तेषामपि सम्भवात् , यथोचितं- यथायोग्यं
||४०॥
For Private and Personal Use Only