________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 1॥१४॥
सूत्रम्
१२ व्रतैकैके द्विकादिसंयोगः १३ कोटिशत ८४ कोटि १२ लक्ष ८७ सहस्र २ शतसंख्यश्रावकव्रतभङ्गाः स्युः । तत्र मम किं के कानि वा सन्तीति । अथ कालप्रमाणार्थमाह पक्खं०' किं मयैतानि व्रतानि पक्षं मासं वा यावत्, अथवा यावज्जीवं गृहीतान्येवमनुस्मरतीति ।।२०।। द्वारम् ३ ॥
साम्प्रतं 'योग' इति तर्यद्वार, तच्च लाघवार्थं दैवसिकावश्यकावसरे सभावार्थं वक्ष्यते । अत्र तु तप एव विशिष्टनिर्जराहेतुः । यदुक्तम्
'सव्वासिं पयडीणं परिणामवसादुवक्कमो भणिओ । पायमनिकाइयाणं तवसा उ निकाइयाणंपि ॥१॥' इत्यतः पाण्मासिकतपःकायोत्सर्गे तद्विषयचिन्तनार्थं सूत्रद्वयमाह..
____ छण्हं तिहीण मज्झमि, का तिही अज्ज वासरे।
किं वा कल्लाणगं अज्ज, लोगनाहाण संतियं ।।२१।। व्या०-'छण्हं'ति मासाभ्यन्तर इति गम्यते । षण्णां तिथीनां सितेतराष्टमीचतुर्दशीपूर्णिमामावास्यालक्षणानां 8 मध्ये का तिथिरद्य वासरे किं वाद्य कल्याणकम् इह भरतेऽत्रावसर्पिण्याम् । च्यवनजन्मादिभिरुपलक्षिता तिथिः 8 कल्याणकम् । केषां ? लोकनाथानां सत्कं- सम्बन्धीति ||२१||
पच्चक्खाणं तु जं तंमि, दिगंमि गिण्हियव्वयं । चिंतेऊणं सुसड्ढो उ, कुणइ अन्नं तओ इमं ।।२२।। दारं ४ ॥
TTTAR Addhodhodhochochochodoog
||१४||
For Private and Personal Use Only